________________
९९
पद्मपुराणम् 1
षष्ठं पर्व ।
तयोः श्रीकंठनामाभूत्सुतः श्रुतिविशारदः । यस्य नाम्नि गते कर्ण हर्षमीयुर्विचक्षणाः ॥ ५ ॥ स्वसा तस्याभवच्चार्वी देवी नाम कनीयसी । वाणतां नयने यस्या गते कुसुमधन्विनः ॥ ६ ॥ अथ रत्नपुरं नाम पुरं तत्र मनोहरं । तत्र पुष्पोत्तरो नाम विद्याधारी महाबलः ॥ ७ ॥ पद्माभासीत्सुता तस्य मनोल्हादनकारिणी । देवकन्येव सर्वेषां रूपलावण्यसंपदां ॥ ८ ॥ तस्य पद्मोत्तराभिख्यः सुतो येन विलोचने । विषयांतरसंबंधाज्जनानां विनिवर्तते ॥ ९ ॥ तस्मै पुष्पोत्तरः कन्यां बहुशस्तामयाचत । श्रीकंठेन न सा तस्मै दत्ता कर्मानुभावतः ॥ १० ॥ सा तेन कीर्तिशुभ्राय दत्ता बांधववाक्यतः । विवाहं च परेणास्याः विधिर्न निरवर्तयत् ॥ ११ ॥ न मेऽभिजनतो दोषो न मे दारिद्र्यसंभवः । न च पुत्रस्य वैरूप्यं न किंचिद्वैरकारणं ॥ १२ ॥ तथापि मम पुत्राय वितीर्णा तेन न स्वसा । इति पुष्पोत्तरो ध्यात्वा कोपावेशं परं गतः ॥ १३ ॥ चैत्यानां वंदना कर्तुं श्रीकंठः सुरपर्वतं । गतो यदा विमानेन वायुवेगेन चारुणा ॥ १४ ॥ तस्मान्निवर्तमानोसौ चेतः श्रोत्रापहारिणं । भृंगाराणामिव झंकारमशृणोद्गीतमिः स्वनं ।। १५ ।। रम्यप्रवणमिश्रेण तेन गीतस्वनेन सः । धृतो ऋजुगुणेनेव वध्वा निश्चलविग्रहः ॥ १६ ॥ १ 'ग' पुस्तके नास्त्ययं श्लोकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org