SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । पंचमं पर्व अवोचद्भगवान्संघो वंदनार्थ चतुर्विधः । सम्मेदं प्रस्थितोवापदंतिकग्रामदर्शनं ॥ २८६ ॥ दृष्ट्वा तमंतिग्रामो दुर्वचाः सकलोऽहसत् । कुंभकारस्तु तत्रैको निषिध्य कृतवान् स्तुतिं ।। २८७|| तद्ग्रामवासिनैकेन कृते चौर्ये स भूभृता । परिवेष्टयाखिलो दग्धो ग्रामो सूर्यपराधकः ॥ २८८ ॥ भस्मसाद्भावमापन्नो यस्मिन् ग्रामोत्र वासरे । कुंभकारो गतः कापि मध्यचेता निमंत्रितः २८९ कुंभकारोभवन्मृत्वा वाणिजः सुमहाधनः । वराटकसमूहस्तु ग्रामः प्राप्तश्च तेन सः ॥ २९० ॥ कुंभकारोभवद्राजा ग्रामोसौ मातृवाहकाः । हस्तिना चूर्णितास्तस्य ते चिरं भवमभ्रमन् ॥ २९९ ॥ राजा च श्रमणो भूत्वा देवीभूय च्युतो भवान् । भगीरथः समुत्पन्नो ग्रामस्तु सगरांगजाः ॥ २९२ ॥ संघस्य निंदनं कृत्वा मृत्युमेति भवे भवे । तेनासौ युगपग्रामो जातः स्तुत्या त्वमीदृशः॥ २९३ ॥ श्रुत्वा पूर्वभवानेवमुपशांत भगीरथः । बभूव मुनिमुख्यश्च तपोयोग्यं पदं ययौ ॥ २९४ ॥ वृत्तांतागतमेतत्ते चरितं सगराश्रितं । कथितं प्रस्तुतं वक्ष्ये श्रृणु श्रेणिक सांप्रतं ।। २९५ ॥ योsaौ तत्र महारक्षो नाम विद्याधराधिपः । लंकायां कुरुते राज्यं कंटकैः परिवर्जितं ॥ २९६ ॥ सोन्यदा कमलच्छन्नदीर्घिकाकृतमंडनं । नानारत्नप्रभोत्तुंगक्रीडापर्वतकारितं ।। २९७ ॥ आमोदिकुसुमोद्भासित रुखंडविराजितं । कलकूजितविभ्रांत शकुंतगणसंकुलं ।। २९८ ॥ 1 For Private & Personal Use Only Jain Education International ८९ www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy