________________
पद्मपुराणम् ।
पंचमं पर्व । उद्धर्तुं धरणी शक्ताः ग्रसितुं चंद्रभास्करा । प्रविष्टास्तेपि कालेन कृतांतबदनं नराः ॥ २७३ ॥ मृत्योर्दुलेषितस्यास्य त्रैलोक्ये वशतां गते । केवलं व्युच्छिताः सिद्धाः जिनधर्मसमुद्भवाः॥२७४॥ यथा ते बहवो याताः कालेन निधनं नृपाः। यास्यामो वयमप्येवं सामान्यं जगतामिदं ॥२७५।। तत्र त्रिलोकसामान्ये वस्तुन्यस्मिन् समागते । शोकं कुर्याद्विबुद्धात्मा को नरो भवकारणं २७६ कथायामिति जातायां वीक्ष्यापत्यद्वयं पुनः । मानसे चक्रवर्तीदं चकारेंगितकोविदः ।। २७७ ॥ सर्वदा युगपत्सर्वं मां नर्मति स्म देहजाः । अथ द्वौ दीनवदनों नूनं शेषा गताः क्षयं ॥ २७८॥ एते चान्यापदेशेन कथयति समागताः । नृपाः कथयितुं साक्षादुदारं दुःखमक्षमाः ॥ २७९ ॥ ततः शोकोरगेणासौ दष्टोपि न समत्यजत् । प्राणान् सभ्यवचोमंत्रैः प्रतिपद्य प्रतिक्रियां ॥२८॥ कदलीगर्भनिःसारमवेत्य भवजं सुखं । भगीरथे श्रियं न्यस्य दीक्षां स समशिश्रियत् ॥ २८१ ॥ त्यजतोस्य धरित्रीयं नगराकरमंडिता । मनस्युदात्तलीलस्य चरत्तणसमाभवत् ॥ २८२ ॥ साई भीमरथेनासौ प्रतिपद्याजितं विभुं । केवलज्ञानमुत्पाद्य सिद्धानां पदमाश्रयत् ॥ २८३ ॥ तनयः सागरेर्जन्होः कुर्वन् राज्यं भगीरथः । श्रुतसागरयोगीन्द्रं पृष्टवानेवमन्यदा ॥ २८४ ॥ पितामहस्य मे नाथ तनया युगपत्कुतः । कमेणो मरणं प्राप्ता मध्ये तेषामहं तु न ॥ २८५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org