________________
पद्मपुराणम् ।
पंचमं पर्व । राजासीद्भरतो नाम्ना त्वया समपराक्रमः । दासीव येन पट्खंडा कृता वश्या वसुंधरा ॥२६० ॥ तस्यादित्ययशाः पुत्रो बभूवोन्नतविक्रमः । प्रसिद्धो यस्य नाम्नायं वंशः संप्रति वर्तते ॥२६॥ एवं तस्याप्यभूत्पुत्रस्तस्याप्यन्योपरस्ततः । गतास्ते चाधुना सर्वे दर्शनानामगोचरं ॥ २६२ ॥ आसतां तावदेते वा नाकलोकेश्वरा अपि । ज्वलिता विभवैर्याताः क्षणादुःखेन भस्मतां।।२६३॥ येपि तीर्थकरा नाम त्रैलोक्यस्याभिनंदकाः । शरीरं तेपि संत्यज्य गच्छंत्यायुःपरिक्षये ॥२६४॥ महातरौ यथैकस्मिन्नुषित्वा रजनी पुनः । प्रभाते प्रतिपद्यते ककुभो दश पक्षिणः ॥ २६५ ।। एवं कुटुब एकस्मिन् संगमं प्राप्य जंतवः । पुनः स्वां स्वां प्रपद्यते गति कर्मवशानुगाः ॥२६६॥ कैश्चित्तचेष्टितं तेषां वपुश्चात्यंतशोभनं । विषयीकृतमक्षिभ्यामस्माकं तु कथागतं ॥ २६७ ॥ बलवद्भ्यो हि सर्वेभ्यो मृत्युरेव महाबलः । आनीता निधनं येन बलवंतो बलीयसा ॥ २६८ ॥ कथं स्फुटति नो वक्षः स्मृत्वा तेषां महात्मनां । विनाशं भरतादीनामहो चित्रमिदं परं ॥२६९।। फेनोमींद्रधनुःस्वमविद्युद्दुदसन्निभाः । संपदः प्रियसंपर्का विग्रहाश्च शरीरिणां ॥ २७० ॥ नास्ति कश्चिन्नरो लोके यो बजेदुपमानतां । यथायममरस्तद्वद्वयं मृत्यूज्झिता इति ॥ २७१ ॥ येपि शोषयितुं शक्ताः समुद्रं ग्राहसंकुलं । कुर्युर्वा करयुग्मेन चूर्ण मेरुमहीधरं ।। २७२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org