________________
पद्मपुराणम् ।
८६
पंचमं पर्व |
सगरस्य च पत्नीनां सहस्राणां षडुत्तराः । नवतिः शक्रपत्नीनामभवन् तुल्यतेजसां ॥ २४७ ॥ सुपुत्राणां च पुत्राणां विभ्रतां शक्तिमुत्तमां । जाताः षष्टिसहस्राणां रत्नस्तंभसमन्विषां ॥ २४८ ॥ ते कदाचिदथो याताः कैलाशं वंदनार्थिनः । कंपयतां पदन्यासैर्वसुधां पर्वता इव ॥ २४९ ॥ विधाय सिद्धानां वंदनां प्रश्रयान्विताः । गिरेस्ते दंडरत्नेन परिक्षेपं प्रचक्रिरे ॥ २५० ॥ आरसातलमूलांतां दृष्ट्वा खातां वसुधरां । तेषामालोचनं चक्रे नागेंद्रः क्रोधदीपितः ।। २५१ ।। क्रोधवन्हेस्ततस्तस्य ज्वालाभिलढविग्रहाः । भस्मसाद्भावमायाताः सुतास्ते चक्रवर्तिनः ॥ २५२ ॥ तेषां मध्ये न दग्धौ द्वौ कथमप्यनुकंपया । जीवितात्मकया शक्त्या विषतो जातया यथा।। २५३ ।। सागरीणामिमं मृत्युं दृष्ट्वा युगपदागतं । दुःखितौ सगरस्यांतं यातौ भीमभगीरथौ ॥ २५४ ॥ अकस्मात्कथितेनायं प्राणांस्त्याक्षीत्क्षणादिति । पंडितैरिति संचित्य निषिद्धौ तौ निवेदने ॥ २५५ ॥ ततः संभूय राजानो मंत्रिणश्च कुलागताः । नानाशास्त्रविबुद्धाश्च विनोदज्ञा मनीषिणः ।। २५६ ।। अविभिन्नमुखच्छायाः पूर्ववेषसमन्विताः । विनयेन यथा पूर्व सगरं समुपागताः ॥ २५७ ॥ नमस्कृत्योपविष्टैस्तैर्यथास्थानं प्रचोदितां । संज्ञया प्रवयाः कश्चिदिदं वचनमब्रवीत् ॥ २५८ ॥ राजन् सगर पश्य त्वं जगतीमामनित्यतां । संसारं प्रति यां दृष्ट्वा मानसं न प्रवर्तते ।। २५९ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org