________________
पद्मपुराणम् ।
पचमं पर्व । नागभोगोपमा भोगा भीमा नरकपातिनः । तेषु कुर्यानरः संगं को वा यः स्यात्सचेतनः २३४ अहो परमिदं चित्रं सद्भावेन पदाश्रितान् । लक्ष्मी प्रतारयत्येव दुष्टत्वं किमतः परं ॥ २३५॥ स्वप्ने समागमो यद्वत्तद्वद्वंधुसमागमः । इंद्रचापसमानं च क्षणमात्रं च तैः सुखं ॥ २३६ ॥ जलवुद्धदवकायः सारेण परिवर्जितः । विद्युल्लताविलासेन सदृशं जीवितं चलं ॥ २३७॥ तस्मात्सर्वमिदं हित्वा संसारावासकारणं । सहायं परिगृह्णामि धर्ममव्यभिचारिणं ॥ २३८ ॥ महारक्षसि निक्षिप्य राज्यभारं ततः कृती। प्रावजत्सोजितस्यांते महावैराग्यकंकटः ॥ २३९॥ दशाधिकं शतं तेन साकं खेचरभोगिनां । निर्वेदमाप्य निष्क्रांतं गेहचारकवासतः ॥ २४०॥ महारक्षः शशांकोपि विश्राणनकरोत्करैः । पूरयन्बांधवांभोधिं रेजे लंकानभोंगणे ॥ २४१॥ प्राप्य स्वमेपि तस्याज्ञां महाविद्याधराधिपाः । संभ्रमावोधमायांति कृतमस्तकपाणयः ॥२४२॥ प्रथिता विमलाभस्य जाता प्राणसमप्रिया । यस्यानुवर्तनं चक्रे छायैव सततानुगा ॥ २४३ ॥ अमरोदधिभानुभ्य परां रक्षाश्रुतिं श्रिता । तस्य तस्यां समुत्पन्नाः पुत्रा सर्वार्थसम्मिताः॥२४४॥ विचित्र कर्मसंपूर्णाः तुंगा विस्तारभाजिनः । प्रसिद्धास्तस्य ते पुत्रास्त्रयो लोका इवाभवन्॥२४५॥ प्रवृत्याजितनाथोपि भव्यानां मुक्तिगामिनां । पंथानं प्राप्य सम्मेदे निजां प्रकृतिमात्मनः २४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org