________________
पद्मपुराणम् ।
पंचमं पर्व। एकस्त्वत्सदृशोऽतीतश्चक्रचिन्हश्रियःपतिः। भवानेको महावीर्यो जनिष्यंति दशापरे ॥ २२१ ॥ प्रथमो भरतोतीतस्सगरस्त्वं च वर्तते । चक्रलांच्छितभोगेशा भविष्यंति परे नृपाः ॥ २२२ ॥ सनत्कुमारविख्यातिमघवा नामतो परः । शांतिकुंथ्वरनामानः सुभूमध्वनिकीर्तितः ॥ २२३ ॥ महापद्मः प्रसिद्धश्च हरिषेणध्वनिस्तथा । जयसेननृपश्चान्यो ब्रह्मदत्तो भविष्यति ॥ २२४ ॥ वासुदेवा भविष्यति नव सार्द्ध प्रतीश्वरैः । बलदेवाश्च तावंतो धर्मविन्यस्तचेतसः ॥ २२५ ॥ प्रोक्ता ऐतेवसर्पिण्यां जिनप्रभृतयस्तथा । तथैवोत्सर्पिणीकाले भरतैरावताख्ययोः ॥ २२६ ॥ एवं कर्मवशं श्रुत्वा जीवानां भवसकटं । महापुरुषभूतिं च कालस्य च विवर्तनं ॥ २२७ ॥ अष्टकर्मविमुक्तानां सुखं चोपमयोज्झितं । जीमूतवाहनश्चक्रे चेतसीदं विचक्षणः ॥ २२८ ॥ कष्टं येरेव जीवोयं कमेभिः परितप्यते । तान्येवोत्सहते कर्तुं मोहितः कर्ममायया ॥ २२९ ॥ आपातमात्ररम्येषु विषवदुःखदायिषु । विषयेषु रतिः का वा दुःखोत्पादनवृत्तिषु ॥२३०॥ कृत्वापि हि चिरं संगं धने कांतासु बंधुषु । एकाकिनैव कर्तव्यं संसारे परिवर्तनं ॥ २३१॥ तावदेव जनः सर्वः प्रियत्वेनानुवर्तते । दानेन गृह्यते यावत्सारमेयशिशुर्यथा ॥ २३२ ॥ इयता चापि कालेन को गतः सह बंधुभिः । परलोकं कलत्रैवों सुहृद्भिाधवेन वा ॥ २३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org