________________
८३
पद्मपुराणम् ।
पंचमं पर्व ।
ततो मयि गते मोक्षमुत्पत्स्यंते जिनाधिपाः । द्वाविंशति क्रमादन्ये त्रिलोकोद्योतकारिणः २०८ ते च मत्सदृशाः सर्वे कांतिवीर्यादिभूषिताः । त्रैलोक्य पूजनप्राप्तेर्ज्ञानदर्शनरूपतः ॥ २०९ ॥ चक्रांकितां श्रियं भुक्त्वा तेषां मध्ये त्रयो जिनाः । प्राप्स्यति ज्ञातसाम्राज्यमनं तसुखकारणं २१० तेषां नामानि सर्वेषां मंगलानि जगत्त्रये । महात्मनामहं वक्ष्ये मनःशुद्धिकराणि ते ।। २११ ॥ ऋषभो वृषभः पुंसामतीतः प्रथमो जिनः । वर्तमानोजितश्चाहं परिशेषा सु भाविनः ॥ २१२ ॥ संभवः संभवो मुक्तेः भव्यानंद्यभिनंदनः । सुमतिः पद्मतेजाश्च सुपार्श्वश्रंद्रसंन्निभः ॥ २१३ ॥ पुष्पदंतोष्टकर्मातः शीतलः शीलसागरः । श्रेयान् श्रेयान्सुचेष्टासु वासुपूज्योर्चितः सतां ॥ २१४ ॥ विमलानंतधर्माश्च शांतिकुंथ्वरकीर्तिताः । मल्लिसुव्रतनामानौ नमिनेमी च विश्रुतौ ।। २१५ ।। पार्श्वो वीरजिनेंद्रश्च जिनशैली धुरंधरः । देवाधिदेवता एते जीवस्वात्मव्यवस्थिताः ॥ २१६ ॥ जन्मावतारः सर्वेषां रत्नवृष्टयाभिनंदितः । मेरौ जन्माभिषेकश्च सुरैः क्षीरोदवारिणा ॥ २१७ ॥ उपमानविनिर्मुक्तं तेजोरूपं सुखं बलं । सर्वे जन्मरिपोर्लोके विध्वंसनविधायिनः ॥ २९८ ॥ अस्तं याते महावीरजिनतिग्मांशुमालिनि । लोके पाखंडखद्योतास्तेजः प्राप्स्यति भूरयः ॥ २१९ ॥ चतुर्गतिकसंसारकूपे ते पतिताः स्वयं । पातयिष्यंति मोहांधानन्यानप्यसुधारिणः ॥ २२० ॥
J
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org