________________
८२
पद्मपुराणम् ।
पंचमं पर्व |
सृष्टाः काले च तस्यैव माहनाः सूत्रधारिणः । सुतेन भरताख्येन तस्य तत्समतेजसा ।। १९५ ।। आश्रमश्च समुत्पन्नाः सागारेतरभेदतः । विज्ञानानि कलाश्चैव नाभेयेनैव देशिताः ॥ १९६ ॥ दीक्षामास्थाय तेनैव जन्मदुःखानलाहताः । भव्याः कृतात्मकृत्येन नीताः सौख्यं शमांबुना १९७ त्रैलोक्यमपि संभूय यस्योपम्यादपेयुषां । गुणानामशकं गंतुमंतमात्मसमुद्यतेः ॥ १९८ ॥ अष्टापदनगारूढो यः शरीरविसृष्टये । दृष्टः सुरासुरैर्हेमकूटाकारः सविस्मयैः ॥ १९९ ॥ शरणं प्राप्य तं नाथं मुनयो भरतादयः । महात्रतधरा याताः पदं सिद्धेः समाश्रिताः ॥ २०० ॥ पुण्यं केचिदुपादाय स्वर्गसौख्यमुपागताः । स्वभावार्जवसंपन्नाः केचिन्मानुष्यकं परं ॥ २०९ ॥ नितांतोज्ज्वलमप्यन्ये ददृशुस्तस्य नो मतं । कुदृष्टिरागसंयुक्ताः कौशिका इव भास्करं ||२०२ || ते कुधर्म समास्थाय कुदेवत्वं प्रपद्य च । पुनस्तिर्यक्षु दुश्रेष्ठा भ्रमंति नरकेषु च ॥ २०३ ॥ अनेकेत्र ततोतीते काले रत्नालयोपमे । नाभेययुगविच्छेदे जाते नष्टसमुत्सवे ॥ २०४ ॥ अवतीर्य दिवो मृद्भः कर्तुं कृतयुगं पुनः । उद्भूतोसि हिताधार्या जगतामजितो जिनः ॥ २०५ ॥ आचाराणां विघातेन कुदृष्टीनां च संपदा । धर्मं ग्लानिपरिप्राप्तमुच्छ्रयंते जिनोत्तमाः ॥ २०६ ॥ तं प्राप्य पुनर्धर्म जीवा बांधवमुत्तमं । प्रपद्यंते पुनर्मार्ग सिद्धस्थानाभिगामिनः ॥ २०७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org