________________
पद्मपुराणम् ।
पंचमं पर्व ।
ततः खेचरलोकेन मस्तकोपात्तशासनः । पुरंदर इव स्वर्गे तत्रासाववसचिरं ॥ १८२ ॥ अथ तस्याभवत्पुत्रः पुत्रजन्माभिकांक्षिणः । महारक्ष इति ख्याति योगतः कौलदेवतीं ॥१८३।। वंदनायान्यदा यातोजितं तोयदवाहनः । बंदित्वा च निजस्थाने स्थितो विनयसन्नतः॥१८४॥ तावदन्यकथाच्छेदे प्रणम्य सगरोऽजितं । पृच्छतीदं शिरः कृत्वा पाणिपंकजदंतुरं ॥ १८५॥ भगवन्नवसर्पिण्यां भवद्विधजिनेश्वराः । स्वामिनो धर्मचक्रस्य भविष्यंत्यपरे कति ॥ १८६ ॥ कति वा समतिक्रांता जगत्रयसुखपदा । भवद्विधनरोत्पत्तिराश्चर्य भुवनत्रये ॥ १८७ ।। कति वा रत्नचक्रांका लक्ष्मीभाजः प्रकीर्तिताः । हलिनो वासुदेवाश्च कियंतस्तद्विषस्तथा॥१८८।। एवं पृष्टो जिनो वाक्यमुवाच सुरदुंदुभेः । तिरस्कुर्वन्महाध्वानं जनितश्रवणोत्सवं ॥ १८९ ॥ भाषार्द्धमागधी तस्य भाषमाणस्य नाधरौ । चकार स्पंदसंयुक्तावहो चित्रमिदं परं ॥ १९ ॥ उत्सर्पिण्यवसर्पिण्योधर्मतीर्थप्रवर्तिनः । चतुर्विंशतिसंख्यानाः प्रत्येकं सगरोदिताः ॥ १९१ ॥ मोहांधवांतसंछन्नं कृत्स्नमासीदिदं जगत् । धर्मसंचेतनामुक्तं निष्पाखंडमराजकं ॥ १९२ ॥ यदा तदा समुत्पन्नो नाभेयो जिनपुंगवः । राजन् तेन कृतः पूर्वः कालः कृतयुगाभिधः॥१९३॥ कल्पिताश्च त्रयो वर्णाः क्रियाभेदविधानतः । शस्यानां च समुत्पत्ति यते कल्पतोयतः॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org