SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । पंचम पर्व । विमलामलकात्याद्या विद्याभाजस्तमृद्धिभिः । सुप्रीता शीघ्रमायाता नंदयंतः सुभाषितैः ॥१६९।। वेष्टितोसौ ततस्तुष्टैः पार्श्वतः पृष्टतोग्रतः । कैश्चिद्विरदपृष्टस्थैः कैश्चित्तुरगयायिभिः ॥ १७० ॥ जयशब्दकृतारावैः प्राप्तदुंदुभिनिःस्वनैः । श्वेतच्छत्र कृतच्छायैर्ध्वजमालाविभूषितैः ॥ १७१ ।। विद्याधराणां संघातैः कृताशीनमनक्रियाः । गच्छन्नमस्तले पश्यंल्लवणार्णवमाकुलं ॥ १७२ ॥ आकाशमिव विस्तीर्ण पातालमिव निस्तलं । तमालवनसंकाशं ऊर्मिमालासमाकुलं ॥ १७३ ॥ अयं जलगतः शैलो ग्राहोयं प्रकटो महान् । चलितोयं महामीनः समीपैरिति भाषितः ॥१७॥ त्रिकूटशिखराधस्तान्महाप्राकारगोपुरं । संध्यामिव विलपंती छाययारुणया नभः ॥ १७५ ॥ कुंदशुभैः समुत्तुंगैः वैजयंत्युपशोभितैः । मंडितां चैत्यसंघातः सप्राकारैः सतोरणैः ॥ १७६ ॥ प्रविष्टो नगरी लंकां प्रविश्य च जिनालयं । वंदित्वा स्वोचितागारमध्युवास समंगलं ॥१७॥ इतरेपि यथासम निविष्टास्तस्य बांधवाः । रत्नशोभासमाकृष्टमनोनयनपंक्तयः ॥ १७८ ॥ अथ किंनरगीताख्ये पुरे रतिमयूखतः । अनुमत्यां समुत्पन्नां सुप्रभानामकन्यकां ॥ १७९ ।। चक्षुर्मानसयोश्चौरी वसतिं पुष्पधन्वनः । कौमुदीं श्रीकुमुद्वत्यां लावण्यजलदीर्घिकां ॥ १८० ॥ संपदा परयोवाह भूषणानां विभूषणीं । हृषीकाणामशेषाणां प्रमोदस्य विधायिकां ॥ विशेषकम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy