________________
पद्मपुराणम् ।
पंचमं पर्व। शिखरं तस्य शैलेंद्रचूडाकारं मनोहरं । योजनानि नवोत्तुंगं पंचाशद्विपुलत्वतः ॥ १५६ ॥ नानारत्नप्रभाजालच्छन्नहेममहातटं । चित्रवल्लीपरिष्वक्तकल्पद्रुमसमाकुलं ॥ १५७ ॥ त्रिंशद्योजनमानाधः सर्वतस्तस्य राक्षसी । लंकेति नगरी भाति रत्नजांबूनदालया ॥ १५८॥ मनोहारिभिरुद्यानैः सरोभिश्च सवारिजैः। महद्भिश्चैत्यगेहैश्च सा महेंद्रपुरीसमा ॥ १५९॥ गच्छतां दक्षिणाशायां मंडनत्वमुपागतां । समं बांधववर्गेण विद्याधर सुखी भव ॥ १६० ॥ एवमुक्त्वा ददावस्मै हारं राक्षसपुंगवः । देवताधिष्ठितं ज्योत्स्ना कुर्वाणं करकोटिभिः ॥ १६१ ॥ जन्मांतरसुतप्रीत्या भीमश्चैवं तमब्रवीत् । हारोयं तेंत्यदेहस्य युगश्रेष्ठस्य चोदितः ॥ १६२ ॥ धरण्यतर्गतं चान्यद्दत्तं स्वाभाविकं पुरं । विस्तीर्णभरतार्द्धार्द्धमधः षड्योजनीगतं ॥ १६३ ॥ दुःप्रवेशमरातीनां मनसापि महद्गृहं । अलंकारो दयाभिख्यं स्वर्गतुल्यमभिख्यया ॥ १६४ ॥ परचक्रसमाक्रांतः कदाचिच्चेद्भवेरसि । आश्रित्य तत्तदा तिष्ठेरहस्यं वंशसंततेः ॥ १६५ ॥ इत्युक्तो राक्षसेशाभ्यां प्राप पूर्णघनात्मजः । प्रमोदं परमं देवं प्रणनाम च सोऽजितं ॥ १६६ ॥ लब्ध्वा च राक्षसी विद्यां आरोप्सितगत्वरं । विमानं कामगं नाम प्रस्थितस्तां पुरीमसौ॥१६७॥ . ज्ञात्वा लब्धवरं चैतं रक्षोभ्यां सर्वबांधवाः । याता विकाशमंभोजसंघा इव दिवानने ॥ १६८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org