________________
पद्मपुराणम् ।
पंचम पर्व। वालिशानामनाथानां सत्त्वानां कारणाद्विना । उपकारं करोषि त्वं आश्चर्य किमतः परं ॥१४३॥ उपमामुक्तरूपस्य वीर्येणाप्रमितस्य ते । निरीक्षणेन कस्तृप्तो विद्यतेस्मिन् जगत्त्रये ॥ १४४ ॥ लब्धार्थः कृतकृत्योपि सर्वदर्शी सुखात्मकः । अचिंत्यो ज्ञातविज्ञेयस्तथापि जगते हितः॥१४५॥ सारधर्मोपदेशाख्यं जीवानां त्वं जिनोत्तम । पततां भवपाताले हस्तालंबं प्रयच्छसि ॥ १४६ ॥ इति तौ गद्गदालापौ वाष्पविप्लुतलोचनौ । परमं हर्षमायातौ प्रणम्य विधिवस्थितौ ॥ १४७॥ शकाद्या देववृषभाः सगराया नृपाधिपाः । साधवः सिंहवीर्याद्या ययुः परममद्भुतं ॥ १४८ ॥ सदस्यथ जिनेंद्रस्य रक्षसामधिपाविदं । ऊचतुर्वचनं भीमसुभीमाविति विश्रुतौ ॥ १४९ ॥ खेचरार्भक धन्योसि यस्त्वं शरणमागतः । सर्वज्ञमजितं नाथं तुष्टावावामतस्तव ॥ १५ ॥ श्रृणु संप्रति ते स्वास्थ्यं यथा भवति सर्वतः । तं प्रकारं प्रवक्ष्यावः पालनीयस्त्वमावयोः १५१ संत्यत्र लवणांभोधावत्युग्रग्राहसंकटे । अत्यंतदुर्गमारम्या मही द्वीपा सहस्रशः ॥ १५२ ॥ कचित्क्रीडंति गंधर्वाः किन्नराणां क्वचिद्गणाः। क्वचिच्च यक्षसंघाताःक्वचित्किपुरुषामराः॥१५३॥ तत्रमध्येस्ति सद्वीपो रक्षसां क्रीडनः शुभः । योजनानां शतान्येषः सर्वतः सप्त कीर्तितः।।१५४॥ तन्मध्ये मेरुवद्भाति त्रिकूटाख्यो महागिरिः । अत्यंतदुःप्रवेशो यः शरणः सद्गुहागृहैः ॥१५५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org