SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ७७ पद्मपुराणम् । पंचमं पर्व। अन्यदैषः समं ताभ्यां बटुं प्रातिष्ठत द्विपं । प्रीतिमैक्षिष्ट सत्त्वानां जन्मनैव विरोधिनां ॥१३०॥ शमिनोमी कथं व्याला इति विस्मयमागतः । अविशत्स महारण्यमपश्यच्च महामुनि ॥ १३१ ॥ ततो राजा समं ताभ्यां तस्य केवलिनोंतिके । प्रव्रज्य निर्वृतिं प्रापच्छतारं तु गताविमौ॥१३२॥ शशिपूर्वस्ततश्च्युत्वा जातोयं मेघवाहनः । आवली तु सहस्राक्षो वैरं तेनानयोरिदं ॥ १३३ ॥ प्रीतिर्ममाधिका कस्मात्सहस्रनयने विभो । इति पृष्ठो जिनोवोचत्सगरेण ततः पुनः ॥ १३४ ॥ भिक्षादानेन साधूनां रंभोमरकुरंगतः । सौधर्म च ततश्च्युत्वा जातचंद्रपुरे हरेः ॥ १३५ ॥ नरेंद्रस्य धरादेव्यां दयितव्रतकीर्तनः । श्रामण्यानाकमारुह्य विदेहेत्ववरे च्युतः ॥ १३६ ॥ महाघोषेण चंद्रिण्यामुत्पन्नो रत्नसंचये । पयोबलो मुनीभूय प्राणतं कल्पमाश्रितः ॥ १३७ ॥ प्रच्युत्य भरते जातो नगरे पृथिवीपुरे । यशोधरनरेंद्रेण जयायां जयकीतेनः ॥ १३८॥ प्रव्रज्य च पितुः पार्श्वे मृत्वा विजयमाश्रितः । च्युत्वा ततो भवान् जातः सगरवकलांच्छनः ॥ रंभस्य भवतो यस्मादावली दयितोभवत् । तत्पूर्वोयं प्रियोद्यापि सहस्राक्षस्ततस्तव ॥ १४०॥ अवगम्य जिनेंद्रास्यादात्मपित्रोर्भवांतरं । उत्पन्नो धर्मसंवेगस्तयोरत्यंतमुन्नतः॥१४१॥ महतो धर्मसंवेगाज्जातौ जातिस्मृतौ ततः । श्रद्धावंती समारब्धौ स्तोतुं तावजितं जिनं ॥१४२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy