________________
पदापुराणम् ।
पंचमं पर्व ।
गोपालकेन सन्मंत्र्य शशी मूल्यार्थमन्यदा । चिक्रीपुगी गृहं यावदायातो निजलीलया ॥११७॥ क्रीत्वा देवनियोगात्तामागच्छन्नावली पुरं । गच्छता शशिना क्रोधानिहतो म्लेच्छतामितः ११८ मृतः शशी बलीवर्दो जातो म्लेच्छेन तेन च । हत्वा वैरानुबंधेन भक्ष्यतामुपपादितः॥ ११९ ।। तिर्यग्नरकपांथः सन्म्लेच्छो मूषकतां गतः । अभूच्छश्यपि मार्जारस्तेन हत्वा स भक्षितः॥१२०॥ पापकर्मनियोगेन प्राप्ती नरकभूमिषु । प्राप्यते सुमहदुःखं जंतुभिर्भवसागरे ॥ १२१ ॥ भूयः संसृत्य काश्यां तौ दासी जातौ सहोदरौ । दास्याः संभ्रमदेवस्य कूटकार्पटिकाहयौ १२२ जिनवेश्मनि तौ तेन नियुक्तौ प्रेत्यपुण्यतः । रूपानंदसुरूपश्च जातौ भूतगणाधिपौ ॥ १२३ ॥ शशिपूर्वोरजोवाल्यां च्युत्वाभूत्कुलपुत्रकः । कुलंधरो परः पुष्पभूतिः पुत्रः पुरोधसः ॥ १२४ ॥ मित्रौ तो सैरिकास्यार्थे प्राप्तौ वैरं ततः स्थितौ । पुष्यभूति ततो हंतुं प्रावर्तत कुलंधरः॥१२५॥ वृक्षमूलस्थसाधोश्च धर्मश्रुत्वा प्रशांतवान् । राज्ञा परीक्षितश्चाभूत्सामंतः पुण्ययोगतः ॥ १२६ ॥ पुष्पभूतिरिमं दृष्टा धर्माद्विभवमागतं । जैनो भूत्वा मृतो जातस्तृतीये सुरविष्टपे ॥ १२७ ॥ कुलंधरोपि तत्रैव च्युतौ तौ मंदरावरे । विदेहे धातकीखंडे जयावत्यामरिंजये ॥ १२८ ॥ . सहस्राशिरसो भृत्यौ क्रूरामरधनश्रुती । जातावत्यंतविक्रांतावतरंगौ सुविश्रुतौ ॥ १२९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org