________________
पद्मपुराणम् ।
पंचम पर्व । ततौसौ तस्य मरणं शंकमानः सुरंगया। प्रस्थितश्चौर्यशांत्यर्थं गृहाभ्यंतरदत्तया ॥ १०४॥ आगच्छता च पुत्रेण कोपि वैरी ममेत्यसौ । मंडलाग्रेण पापेन वराको विनिपातितः ॥ १०५॥ विज्ञातोसौ ततस्तेन नखस्मश्रुसटादिभिः । स्पृष्ट्वा मम पितेत्येष प्राप्तो दुःखं च दुस्सहं ॥१०६॥ जनकस्य ततो मृत्युं कृत्वा सोऽभयविद्रुतः । पर्यटन्दुःखतो देशान् यातः कालेन पंचतां॥१०७॥ कौलेयकौ श्रृगालौ च वृषदंशौ वृषौ तथा । नकुलौ महिषावेतौ जातौ च वृषभौ पुनः॥१०८॥ अन्योन्यस्य ततो घातं कृत्वा तौ भवसंकटे । विदेहे पुष्कलावत्यां मनुष्यत्वमुपागतौ ॥ १०९ ॥ उग्रं कृत्वा तपस्तस्मिन्नुत्तरानुत्तराद्वयौ । गत्वा सतारमायातौ जनकौ भवतोरिमौ ॥ ११ ॥ योसौ भावननामासीज्जातोसौ पूर्णतोयदः । आसीत्तस्य तु यः पुत्रः संजातः स सुलोचनः १११ पित्रोरेवं परिज्ञाय भवदुःखविवतेनं । भजतः शममुज्झित्वा वैरं संसारकारणं ॥ ११२ ॥ चक्रवर्ती ततोपृच्छदेतयोः पूर्वजन्मनि । वैरकारणमेवं च भाषितं धर्मचक्रिणा ।। ११३ ॥ जंबूद्वीपस्य भरते पुरे पद्मकनामनि । शंखिकोरंभनामासीद्विषये प्रथितो धनी ॥ ११४ ॥ शश्यावलिसमाह्वानौ तस्य मैत्रीसमन्वितौ । शिष्यावत्यंतविख्यातौ धनवंती गुणोत्कटौ ॥११५॥ माभूदाभ्यां ममोद्वर्तः संहताभ्यामिति द्रुतं । तयो संभेदमकरोनयशास्त्रविचक्षणः ॥११६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org