________________
पद्मपुराणम् ।
७४
पंचमं पर्व ।
सहस्रनयनेनाहं त्रासितः शत्रुणा भृशं । हंसैः समं समुत्पत्य प्रासादादागतो द्रुतं ॥ ९१ ॥ ततो जिनसमीपे तं गृहीतुमसहैर्नृपैः । निवेदिते सहस्राक्षः संप्रतस्थे स्वयं रुषा ।। ९२ ॥ कोपरेस्ति मदुद्वीर्यो येनासौ परिरक्ष्यते । इति संचिंतयन् प्राप्तो जिनस्य धरणीमसौ ।। ९३ ।। प्रभामंडलमेवासौ दृष्ट्वा दूरे जिनोद्भवम् । सर्वं गर्व परित्यज्य प्रणनामाजितं विभुं ॥ ९४ ॥ जिनपादसमीपे तौ मुक्तवैरौ ततः स्थितौ । तत्पित्रोश्चरितं पृष्टो गणिना च जिनाधिपः ॥ ९५ ॥ इदं प्रोवाच भगवान् जंबूद्वीपस्य भारते । पुरे सहत्तुसंज्ञाके भावनो नाम वाणिजः ॥ ९६ ॥ आतकीत्यंगना तस्य हरिदासश्च तत्सुतः । चतुःकोटीश्वरो भूत्वा यात्रोद्युक्तः स भावनः ||९७|| पुत्राय सकलं द्रव्यं न्यासत्वेन समर्पयन् । द्यूतादिवर्जनार्थं च शिक्षामस्मै ददौ परं ।। ९८ ।। सहेतु सर्वदोषेभ्यः उपदिश्य निवर्तनं । पुत्राय वणिजो यातः पोतेन धनतृष्णया ।। ९९ ।। उपचारेण वेश्याया मासया द्यूतमंडले । सुरायामभिमानेन चतुः कोट्योपि नाशिताः ॥ १०० ॥ दासौ निर्जितो छूते तदा राज्ञो गृहं गतः । हरिदासो दुराचारो द्रविणार्थं सुरंगया ॥ १०१ ॥ आनीयासौ ततो द्रव्यं क्रियाः सर्वाश्वकार सः । भावनोन्यदा गेहमायातो नेक्षते सुतं ॥ १०२ ॥ हरिदासः गतः क्वेति तेन पृष्टा कुटुंबिनी । साऽवोचदनया यातचौर्यार्थं च सुरंगया ॥
१०३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org