________________
पद्मपुराणम् ।
पंचमं पर्व। विहाय तिलकेशं स ययाचे वरकन्यकां । नैमित्तकाज्ञया दत्ता. सगराय तु तेन सा ॥ ७८ ॥ युद्धं सुलोचनस्योग्रं यावत्पूर्णघनस्य च । गृहीत्वा भगिनीं तावत्सहस्रनयनोगमत् ॥ ७९ ॥ निषूद्य च सुनेत्रं स पुरं पूर्णघनोविशत् । अदृष्ट्वा च स तां कन्यां स्वपुरं पुनरागतः ॥ ८॥ ततः पितृवधात्क्रुद्धः सहस्रनयनो बलः । अरण्ये शरभाक्रांते स्थितः छिद्रेक्षणादृतः ॥८१॥ ततश्चक्रधरोऽश्वेन हृतस्तं देशमागतः । दिष्टया चोत्पलमत्यासौ दृष्ट्वा भ्रात्रे निवेदितः॥८२॥ तुष्टेन तेन सा तस्मै दत्ता सगरचक्रिणे । चक्रिणाप्ययमानीतो विद्याधरमहीशतां ॥८३॥ स्त्रीरत्नं तदसौ लब्ध्वा परं तोषमुपागतः । षट्खंडाधिपतिः सर्वैः पार्थिवैः कृतशासनः ॥ ८४ ॥ प्राप्तविद्याभदैश्येन पुरं पौर्णघनं ततः । रुद्धं सहस्रनेत्रेण प्राकारेणेव सर्वतः॥ ८५ ॥ ततो महति संग्रामे प्रवृत्ते जनसंक्षये । नीतः सहस्रनेत्रेण पूर्णमेघः परासुतां ।। ८६॥ पुत्रः पूर्णघनस्याथ नाम्ना तोयदवाहनः । परैरुद्वासितश्चक्रवालाभ्राम्यन्नभोंगणे ॥ ८७॥ खेचरैर्बहुभिः क्रुद्धैरुनुयातः सदुःखितः । अजितं शरणं यातस्त्रैलोक्यमुखकारणं ॥ ८८ ॥ ततो वज्रधेरणासौ पृष्टस्त्रासककारणं । अब्रवीत्सगरं प्राप्य मम बंधुः क्षयं कृतः॥ ८९ ॥ अस्मत्पिनोरभूद्वैरं नैकजीवविनाशनं । तेनानुबंधदोषेण नितांतरचेतसा ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org