________________
पद्मपुराणम् ।
पंचम पर्व । रक्तोष्ठो हरिचंद्रश्च पूचंद्रः पूर्णचंद्रमाः । बालेंदुश्चंद्रमश्चूडो व्योमेंदुरुडुपातनः ॥५२॥ एकचूडो द्विचूडश्च त्रिचूडश्च ततोभवत् । वज्रचूडस्ततस्तस्माद्भरिचूडार्कचूडकौ ॥ ५३ ॥ तस्माद्वन्हिजटीजातो वन्हितेजास्ततोभवत् । बहवश्चैवमन्येपि कालेन क्षयमागताः ॥५४॥ पालयित्वा श्रियं केचिन्न्यस्य पुत्रेषु तां पुनः । कृत्वा कमेक्षयं याताः सिद्धैरध्यासितां महीं ५५ एवं वैद्याधरोयं ते राजन् वंशः प्रकीर्तितः । अवतारो द्वितीयस्य युगस्यातः प्रचक्ष्यते ॥५६॥ अम्य नाभेयचिन्हस्य युगस्य विनिवर्तते । हीनाः पुरातना भावाः प्रशस्ता अत्र भूतले ॥५७ ॥ शिथिलायितुमारब्धाः परलोकक्रियारतिः । कामार्थयोः समुत्पन्ना जनस्य परमा मतिः ॥५८॥ अथेक्ष्वाकुकुलोत्थेषु तेष्वतीतेषु राजसु । पुत्रश्रियं समुत्पन्नो धरणीधरनामतः ॥५९॥ अयोध्यानगरे श्रीमान् प्रख्यातत्रिदशंजयः । इंदुरेखा प्रिया तस्य जितशत्रुस्तयोः सुतः॥६०॥ पुरे पोदनसंज्ञेथ व्यानंदस्य महीपतेः । जातामंभोजमालायां नामतो विजयां सुतां ॥६१॥ जितशत्रोः समायोज्य प्रव्रज्यस्त्रिदशंजयः । निर्वाणं च परिप्राप्तः कैलाशधरणीधरे ॥६२ ॥ अथाजितजिनो जातस्तयोः पूर्वविधानतः । अभिषेकादि देवेंद्रैः कृतं नाभेयवर्णितं ॥६३॥ तस्य पित्रा जिताः सर्वे तज्जन्मनि यतो द्विषः । ततोसावजिताभिख्यां संप्राप्तो धरणीतले।।६४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org