________________
पद्मपुराणम् ।
पंचमं पी ख्यातो वन्हिशिखो नाम्ना सत्यवादीति विश्रुतः। अभूत्पुरोहितो रौद्रो गुप्ताकार्यकरो महान् ३९ वणिनियमदत्तस्य स च द्रव्यमपान्हुत । राज्ञा द्यूतं ततः कृत्वा निर्जितः सोंगुलीयकं ॥ ४०॥ तेनाभिज्ञानदानेन दास्या गत्वा तदालयं । उपनीतानि रत्नानि वाणिजे दुःखवर्तिने ॥४१॥ ततो गृहीतसर्वस्वः खलीकृत्य द्विजाधमः । पुरो निर्वासितो दीनस्तपः परममाचरन् ॥ ४२ ॥ मृत्वा कल्पं स माहेंद्र प्राप्तस्तस्मात्परिच्युतः । खेचराणामधीशोयमभूद्विादृढध्वनिः ॥४३॥ श्रीवर्द्धनस्तपः कृत्वा मृत्वा कल्पमुपागतः । संजयंतश्रुतिजोता विदेहेहं ततश्च्युतः ॥ ४४ ॥ तेन दोषानुबंधेन दृष्ट्वा मां क्रोधमूर्छितः । उपसर्ग व्याधादेष कर्मणां वशतां गतः ॥४५॥ योसौ नियमदत्तोभूत्स कृत्वा तपसोर्जनं । राजा नागकुमाराणां जातस्त्वं शुभमानसः ॥ ४६॥ अथ विद्युदृढस्याभूनाम्ना दृढरथः सुतः । तत्र राज्यं स निक्षिप्य तपः कृत्वा गतो दिवं॥४७॥ अश्वधर्माभवत्तस्मादश्वायुरभवत्ततः । अश्वध्वजस्ततो जातस्ततो पानभोभवत् ॥ ४८ ॥ पद्ममाली ततोभूतोऽभवत्पद्मरथस्ततः । सिंहयानो मृगद्वर्मा मेघास्त्रः सिंहसप्रभुः॥ ४९ ।। सिंहकेतुः शशांकास्यश्चंद्राहश्चंद्रशेखरः । इंद्रचंद्ररथाभिख्यौ चक्रधर्मा तदायुधः ॥५०॥ चक्रध्वजो मणिग्रीवो मण्यंको मणिभासुरः । माणिस्यंदनमण्यास्यौ बिंबोष्ठो लविताधरः॥५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org