________________
पद्मपुराणम् ।
६९
पंचमं पर्व ।
अन्यदा स गतोऽपश्यद्विदेहं गगनस्थितः । निर्ग्रथं योगमारूढं शैलनिश्चलविग्रहं ॥ २६ ॥ स्थापितस्तेन नीत्वासौ नाम्ना पंचगिरौ गिरौ । कुरुध्वं बधमस्येति विद्यावंतश्च चोदिताः ॥२७॥ तस्य लोष्टुभिरन्यैश्च हन्यमानस्य योगिनः । बभूव समचित्तस्य संक्लेशो न मनागपि ॥ २८ ॥ ततोस्य सहमानस्य संजयंतस्य दुःसहं । उपसर्ग, समुत्पन्नं केवलं सर्वभासनं ।। २९ ।। धरणेन ततो विद्या हृता विद्युद्द्द्दढस्थिताः । ततोसौ हृतविद्यः सन् ययावुपशमं परं ॥ ३० ॥ ततोनया पुनर्लब्धा विद्यानेन व्यवस्थया । प्रणतेनांजलिं कृत्वा संजयंतस्य पादयोः ॥ ३१ ॥ तपः क्लेशेन भवतां विद्याः सेत्स्यति भूरिणा । सिद्धा अपि तथासत्यः छेदं यास्यंति दुःकृतात् ।। अर्हद्विंबसनाथस्य चैतस्योपरि गच्छतां । साधूनां च प्रमादेपि विद्या नक्ष्यंति वः क्षणात् ॥३३॥ धरणेन ततः पृष्टः संजयंतः कुतूहलात् । विद्युदहटेन भगवन् कस्मादेवं विचेष्टितं ॥ ३४ ॥ उवाच भगवानेवं संसारेस्मिन् चतुर्गतौ । भ्राम्यन्नहं समुत्पन्नो ग्रामे शकटनामनि ॥ ३५ ॥ offered नाम्ना प्रियवादी दयान्वितः । स्वभावार्जवसंपन्नः साधुसेवापरायणः ।। ३६ ।। कालधर्म ततः कृत्वा राजा श्रीवर्द्धनाह्वयः । अभवत्कुमुदावत्यां व्यवस्थापालनोद्यतः ॥ ३७ ॥ ग्रामे तत्रैव विप्रोभूत् कृत्वा कुत्सितं तपः । कुदेवोत्र ततश्चुत्वा राज्ञः श्रीवर्द्धनस्य तु ॥ ३८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org