________________
पद्मपुराणम् ।
पंचम पर्व । शशिवंशसमुत्पन्नाः क्रमेण सितचेष्टिताः । श्रामण्यमनुभूयाशु संप्राप्ताः परमं पदं ॥ १३ ॥ केचित्तु तनुकर्माणो भुंजानास्तपसः फलं । स्वर्गे चक्रुरवस्थानमासन्नभवनिर्गमाः ॥ १४ ॥ एष ते सोमवंशोपि कथितः पृथिवीपते । वैधाधरमतो वंशं कथयामि समासतः ॥ १५ ॥ नमेर्विद्याधरेंद्रस्य रत्नमाली सुतोभवत् । रत्नवज्रस्ततो जातस्ततो रत्नरथोभवत् ॥ १६ ॥ रत्नचित्रोभवत्तस्माज्जातश्चंद्ररथस्ततः । जज्ञेऽतो वज्रसंघाख्यो वज्रसेनश्रुतिस्ततः ॥ १७॥ उद्भूतो वज्रदंष्ट्रोतस्ततो वज्रध्वजोभवत् । वज्रायुधश्च वज्रश्च सुवज्रो वज्रभृत्तथा ॥ १८॥ वजाभो वज्रबाहुश्च वज्रांको वज्रसंज्ञकः । वज्रास्यो वज्रपाणिश्च वज्रजातुश्च वज्रवान् ॥ १९॥ विद्युन्मुखः सुवक्रश्च विद्युदंष्ट्रश्च तत्सुतः। विद्युत्वान् विद्युदामश्च विद्युद्वेगोथ वैद्युतः॥२०॥ इत्याद्या बहवः शूरा विद्याधरपुराधिपाः । गता दीर्पण कालेन चेष्टितोचितमांश्रमं ॥ २१ ॥ सुतेषु प्रभुतां न्यस्य जिनदीक्षामुपाश्रिताः । हित्वा द्वेषं च रागं च केचित्सिद्धिमुपागताः ॥२९॥ केचिद्विनाशमप्राप्ते समस्ते कर्मबंधने । संकल्पकृतसान्निध्यं सुरभोगमभुंजत ॥ २३ ॥ केचित्तु कर्मपाशेन बद्धाः स्नेहगरीयसा । तत्रैव निधनं याता वागुरायां मृगा इव ॥ २४ ॥ अथ विद्युदंष्ट्रो नाना प्रभुः श्रेण्योर्द्वयोरपि । विद्यावलसमुन्नद्धो बभूवोन्नतविक्रमः ॥ २५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org