________________
पद्मपुराणम् ।
૬૭
अथ पंचमं पर्व ।
जगत्यस्मिन्महावंशाश्चत्वारः प्रथिता नृप । एषां रहस्यसंयुक्ताः प्रभेदा बहुधोदिताः ॥ १ ॥ इक्ष्वाकुः प्रथमस्तेषामुन्नतो लोकभूषणः । ऋषिवंशो द्वितीयस्तु शशांककर निर्मलः ॥ २ ॥ विद्याभृतां तृतीयस्तु वंशत्यंतमनोहरः । हरिवंशो जगत्ख्यातश्चतुर्थः परिकीर्तितः ॥ ३ ॥ तस्यादित्ययशाः पुत्रो भरतस्योदपद्यत । ततः सितयशा जातो वलांकस्तस्य चाभवत् ॥ ४ ॥ जज्ञे च सुबलस्तस्मात्ततश्चापि महाबलः । तस्मादतिबलो जातस्ततश्चामृतशब्दितः ॥ ५ ॥ सुभद्रः सागरो भद्रो रवितेजास्तथा शशी । प्रभूततेजाः तेजस्वी तपनोथ प्रतापवान् ।। ६ ।। अतिवीर्यः सुवीर्यश्च तथोदितपराक्रमः । महेंद्रविक्रमः सूर्य इंद्रद्युम्नो महेंद्रजित् ॥ ७ ॥ प्रभुर्विभुरविध्वंसो वीतभर्दृषभध्वजः । गरुडांको मृगांकश्च तथान्ये पृथिवीभृतः ॥ ८ ॥ राज्यं सुतेषु निक्षिप्य संसारार्णव भीरवः । शरीरेष्वपि निःसंगा निर्ग्रथव्रतमाश्रिताः ॥ ९ ॥ अयमादित्यवंशस्ते कथितः क्रमतो नृपः । उत्पत्तिः सोमवंशस्य सांप्रतं परिकीर्त्यते ॥ १० ॥ ऋषभस्याभवत्पुत्रो नाम्ना बाहुबलीति यः । ततः सोमयशा नाम सौम्यः सूनुरजायत ॥ ११ ॥ ततो महाबलो जातस्ततोस्य सुबलोभवत् । स्मृतो भुजवली तस्मादेवमाद्या नृपाधिपाः ॥ १२ ॥
Jain Education International
पंचमं पर्व ।
For Private & Personal Use Only
www.jainelibrary.org