________________
पद्मपुराणम् ।
चतुर्थ पर्व । यस्मान्मा हननं पुत्र कार्कीरिति निवारितः । ऋषभेण ततो याता 'माहना' इति ते श्रुतिं ॥१२२॥ रक्षितास्ते यतस्तेन जिनेन शरणागताः । त्रातारमिंद्रमित्युच्चैस्ततस्तं विबुधा जगुः ॥ १२३ ॥ ये च ते प्रथमं भग्ना नृपा नाथानुगामिनः । व्रतांतरममी चक्रुः स्वबुद्धिपरिकल्पितं ॥ १२४॥ तेषां शिष्याः प्रशिष्याश्च मोहयंतः कुहेतुभिः । जगद्गर्वपरायत्ताः कुशास्त्राणि प्रचक्रिरे ॥१२५॥ भृगुरंगोंगिरा वन्हिः कपिलोत्रिर्विदस्तथा । अन्ये च बहवोऽज्ञानाज्जाता वल्कलतापसाः १२६ स्त्रियं दृष्ट्वा कुचित्तास्त पुल्लिंगं प्राप्तविक्रियं । पिदधुर्मोहसंछन्नाः कोपीनेन नराधमाः ॥१२॥ सूत्रकंठाः पुरा तेन ये सृष्टाश्चक्रवर्त्तिना । वीजवत्प्रसृतास्तेत्र संतानेन महीतले ॥ १२८ ॥ प्रस्तावगतमेतत्ते कथितं द्विजकल्पनं । इदानीं प्रकृतं वक्ष्ये राजन् शृणु समाहितः ॥ १२९ ॥ अथासौ लोकमुत्तार्य प्रभूतं भवसागरात् । कैलाशशिखरे प्राप निर्वृतिं नाभिनंदनः ॥ १३० ॥ ततो भरतराजोपि प्रवज्यां प्रतिपन्नवान् । साम्राज्यं तृणवत्त्यक्त्वा लोकविसयकारणं ॥ १३१॥ स्थित्यधिकारोयं ते, श्रेणिक गदितः समासतस्त्वेनं । वंशाधिकारमधुना पुरुषरवे विद्धिसादरं वच्मि ॥
इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मचरिते ऋषभमाहात्म्याभिधानं नाम चतुर्थ पर्ष ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org