________________
पंद्मपुराणम् ।
६५
चतुर्थ पर्व। अंगणोप्तयवव्रीहिमुद्गमापांकुरादिभिः । उञ्चित्यलक्षणैः सर्वान्सम्बग्दर्शनसंस्कृतान् ॥ १०९॥ अलक्षयत्सरत्नेन सूत्रचिन्हेन चारुणा । चामीकरमयेनासौ प्रावेशयदथो गृहं ॥ ११०॥ मिथ्यादृशोपि तृष्णा श्चिंतया व्याकुलीकृताः । जल्पंतो दीनवाक्यानि प्रविष्टाः दुःखसागरं १११ ततो यथेप्सितं दानं श्रावकेभ्यो ददौ नृपः । पूजितानां च चिंतेय तेषां जाता दुरात्मनां ॥११२॥ वयं केपि महापूता जगते हितकारिणः । पूजिता यन्नरेंद्रेण श्रद्धयात्यंततुंगया ॥ ११३ ॥ ततस्ते तेन गर्वेण समस्ते धरणीतले । प्रवृत्ता याचितुं लोकं दृष्ट्रा द्रव्यसमन्वितं ॥ ११४ ॥ ततो मतिसमुद्रेण भरताय निवेदितं । यथायेति मया जैने वचनं सदसि श्रुतं ॥ ११५॥ व मानजिनस्यांते भविष्यंति कलौ युगे । एते ये भवता सृष्टाः पाखंडिनो महोद्धताः ॥११६॥ प्राणिनो मारयिष्यंति धर्मबुध्या विमोहिताः । महाकषायसंयुक्ताः सदा पापक्रियोद्यताः॥११७॥ कुग्रंथं वेदसंज्ञं च हिंसाभाषणतत्परं । वक्ष्यति कर्तनिर्मुक्तं मोहयतोखिलाः प्रजाः ॥ ११८ ॥ महारंभेषु संसक्ताः प्रतिग्रहपरायणाः । करिष्यति सदा निंदां जिनभाषितशासने ॥ ११९ ॥ निर्ग्रथमग्रतो दृष्ट्वा क्रोधं यास्यति पापिनः । उपद्रवाय लोकस्य विषवृक्षांकुरा इव ॥ १२० ॥ तच्छ्रुत्वा मरतः क्रुद्धः तान्सर्वान् हंतुमुद्यतः । त्रासितास्ते ततस्तेन नामेयं शरणं गताः॥१२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org