________________
पद्मपुराणम् ।
चतुर्थ पर्व । एते हि तृष्णया मुक्ता निर्जितेंद्रियशत्रवः । विधायापि बहून्मासानुपवासं महागुणाः ॥ ९६ ॥ भिक्षां परगृहे लब्धां निर्दोषां मौनमास्थिताः । भुंजते प्राणधृत्यर्थं प्राणा धर्मस्य हेतवः ॥९७॥ धर्मं चरति मोक्षार्थ यत्र पीडा न विद्यते । कथंचिदपि सत्त्वानां सर्वेषां सुखच्छितां ॥ ९८॥ श्रुत्वा तद्वचनं सम्राडचिंतयदिदं चिरं । अहो वत महाकष्टं जैनेश्वरमिदं व्रतं ॥ ९९॥ . तिष्ठंति मुनयो यत्र स्वस्मिन् देहेपि निःस्पृहाः । जातरूपधरा धीराः शांतप्रशममूर्तयः ॥१०॥ इदानीं भोजयाम्येतान्सागारव्रतमाश्रितान् । लक्षणं हेमसूत्रेण कृत्वैतेनमहांधसा ॥ १०१॥ प्रकाममन्यदप्येभ्यो दानं यच्छामि भक्तितः। कनीयान्मुनिधर्मस्य धर्मोऽमीभिः समाश्रितः १०२ सम्यग्दृष्टिजनं सर्व ततोसौ धरणीतले । न्यमंत्रयन्महावेगेः पुरुषैः स्वस्य सस्मतैः ॥ १०३ ॥ महान्कलकलो जातः सर्वस्यामवनौ ततः। भो भो नरा महादानं भरतः कर्तुमुद्यतः ॥ १०४ ॥ उत्तिष्ठताशु गच्छामो वस्त्ररत्नादिकं धनं । आनयामो नरा ह्येते प्रेषितास्तेन सादराः॥१०५ ॥ उक्तमन्येरिदं तत्र पूजयत्येष सम्मतान् । सम्यग्दृष्टिजनान् राजा गमनं तत्र नो वृथा ॥१०६॥ ततः सम्यग्दृशो याता हर्ष परममागताः । समं पुत्रैः कलत्रैश्च पुरुषा विनयस्थिताः ॥ १०७ ॥ मिथ्यादृशोपि संप्राप्ता मायया वसुतृष्णया । भवनं राजराजस्य शक्रप्रासादसनिभं ॥ १०८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org