________________
६३
चतुर्थी पर्व ।
पद्मपुराणम् ।
रक्षितं यस्य यक्षाणां सहस्रेण प्रयत्नतः । सर्वेद्रियसुखं रत्नं सुभद्राख्यं विराजते ॥ ८३ ॥ पंचपुत्रशतान्यस्य यैरिदं भरताह्वयं । क्षेत्रं विभागतो भुक्तं पित्रा दत्तमकंटकं ॥ ८४ ॥ अथैवं कथितं तेन गौतमेन महात्मना । श्रेणिकः पुनरप्याह वाक्यमेतत्कुतूहली ॥ ८५ ॥ वर्णत्रयस्य भगवन्संभवो मे त्वयोदितः । उत्पत्तिं सूत्रकंठानां ज्ञातुमिच्छामि सांप्रतं ॥ ८६ ॥ प्राणिघातादिकं कृत्वा कर्म साधु जुगुप्सितं । परं वहत्यमी गर्व धर्मप्राप्तिनिमित्तकं ॥ ८७ ॥ तदेषां विपरीतानां उत्पत्तिं वक्तुमर्हसि । कथं चैषां गृहस्थानां भक्तो लोकः प्रवर्तते ॥ ८८ ॥ एवं प्रष्ट गणेशोसाविदं वचनमब्रवीत् । कृपांगनापरिष्वक्तहृदयोद्गतमत्सरः ॥ ८९ ॥ श्रेणिक श्रूयतामेषां यथा जातः समुद्भवः । विपरीतप्रवृत्तीनां मोहावष्टब्धचेतसां ।। ९० ।। साकेतनगरासने प्रदेशे प्रथमो जिनः । आसांचक्रेऽन्यदा देवस्तिर्यग्मानववेष्टितः ॥ ९१ ॥ ज्ञात्वा तं भरतस्तुष्टो ग्राहयित्वा सुसंस्कृतं । अन्नं जगाम यत्यर्थं बहुभेदप्रकल्पितं ॥ ९२ ॥ प्रणम्य च जिनं भक्त्या समस्तांश्च दिगंबरान् । भ्रमौ करद्वयं कृत्वा वाणीमेतां प्रभाषत ॥ ९३॥ प्रसादं भगवंतो मे कर्तुमर्हथ याचिताः । प्रतीच्छत मया भिक्षां शोभनामुपपादितां ॥ ९४ ॥ इत्युक्ते भगवानाह भरतेयं न कल्पते । साधूनामीदृशी भिक्षा या तदुद्देशसंस्कृता ।। ९५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org