SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । चतुर्थ पर्व । तस्यासीद्गगणपालानामशीतिश्चतुरुत्तरा । सहस्राणि च तावंति साधूनां च तपोभृतां ॥ ५७ ॥ अत्यंतशुद्धचित्तास्ते रविचंद्रसमप्रभाः। एभिः परिवृतः सर्वां जिनो विहरते महीं ॥ ५८ ॥ चक्रवर्तिश्रियं तावत्प्राप्तो भरतभूपतिः । यस्य क्षेत्रमिदं नाम्ना जगत्प्रकटतां गतं ॥ ५९॥ ऋषभस्य शतं पुत्रास्तेजस्कांतिसमन्विताः । भ्रमणव्रतमास्थाय संप्राप्ताः परमं पदं ॥ ६ ॥ तन्मध्ये भरतश्चक्री बभूव प्रथमो भुवि । विनीतानगरे रम्ये साधुलोकनिषेविते ॥ ६१ ॥ अक्षया निधयस्तस्य नवरत्नादिसंभृताः । आकराणां सहस्राणि नवतिनेवसंयुताः ॥ ६२ ।। त्रयं सुरभिकोटीनां हलकोटिस्तथोदिताः । चतुर्भिरधिकाशीतिर्लक्षाणां वरदंतिनां ॥ ६३॥ कोट्यश्चाष्टादशोद्दिष्टा वाजिनां वातरंहसां । द्वात्रिंशच्च सहस्राणि पार्थिवानां महौजसां ॥ ६४ ॥ तावत्येव सहस्राणि देशानां पुरसंपदां । चतुर्दश च रत्नानि रक्षितानि सदा सुरैः ॥६५॥ पुरंध्रीणां सहस्राणि नवतिः षभिरन्विताः । ऐश्वर्यं तस्य निःशेष गदितुं नैव शक्यते ॥६६॥ पौतनाख्ये पुरे तस्य स्थितो बाहुवली नृपः । प्रतिकूलो महासत्त्वस्तुल्योत्पादकमानसः ॥६७॥ तस्य युद्धाय संप्राप्तो भरतश्चक्रगर्वितः । सैन्येन चतुरंगेण छादयन्धरणीतलं ॥ ६८ ॥ तयोगेजघटाटोपसंघट्टरवसंकुलं । संजातं प्रथमं युद्धं बहुसत्त्वक्षयावहं ॥ ६९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy