________________
पद्मपुराणम् ।
चतुर्थ पर्व ।
सम्यग्दर्शनसंपन्नाः स्वभ्यस्तजिनशासनाः । दिवं गत्वा च्युता बोधिं प्राप्य यांति परं शिवं ४४ सागराणां यतीनां च धर्मोसौ द्विविधः स्मृतः । तृतीयं ये तु मन्यंते दग्धास्ते मोहवन्हिना ४५ अणुव्रतानि पंच स्युः त्रिप्रकारं गुणवतं । शिक्षात्रतानि चत्वारि धर्मोयं गृहसेविनां ॥ ४६ ॥ सर्वारंभपरित्यागं कृत्वा देहेपि निःस्पृहाः । कालधर्मेण संयुक्ता गतिं ते यांति शोभतां ॥ ४७ ॥ महाव्रतानि पंच स्युस्तथा समितयो मताः । गुप्तयस्तिस्र उद्दिष्टा धर्मोयं व्योमवाससां ॥ ४८ ॥ धर्मेणानेन संयुक्ताः शुभध्यानपरायणाः । यांति नाकं च मोक्षं च हित्वा पूर्तिकलेवरं ॥ ४९ ॥ येपि जातस्वरूपाणां परमब्रह्मचारिणां । स्तुतिं कुर्वति भावेन तेपि धर्ममवाप्नुयुः ॥ ५० ॥ तेन धर्मप्रभावेन कुगतिं न व्रजंति ते । लभंते बोधिलाभं च मुच्यते येन किल्विषात् ॥ ५१ ॥ इत्यादि देवदेवेन भाषितं धर्ममुत्तमं । श्रुत्वा देवमनुष्याश्च परमं मोदमागताः ॥ ५२ ॥ केचित्सम्यग्मतिं भेजुगृहिधर्ममथापरे । अनगारवतं केचित्स्वशक्तेरनुगामिनः ॥ ५३ ॥ ततः समुद्यताः गंतुं जिनं नत्वा सुरासुराः । स्तुत्वा च निजधामानि गता धर्मविभूषिताः॥ ५४ ॥ यं यं देशं स सर्वज्ञः प्रयाति गतियोगतः । योजनानां शतं तत्र जायते स्वर्गविभ्रमं ॥ ५५ ॥ स भ्रमन् बहुदेशेषु भव्यराशीनुपागतान् । रत्नत्रितयदानेन संसारादुदतीतरन् ॥ ५६ ॥
Jain Education International
६०
For Private & Personal Use Only
www.jainelibrary.org