________________
पद्मपुराणम् ।
५९
चतुर्थ पर्व ।
ततस्तमवधिज्ञानादवगम्य सुराधिपाः । वंदितुं सपदि प्राप्ताः परिवारसमन्विताः ॥ ३१ ॥ ख्यातो वृषभसेनोस्य संजातो गणभृत्ततः । अन्ये च श्रमणा जाता महावैराग्ययोगिनः ॥ ३२ ॥ यथास्थानं ततस्तेषु सरणे समवान्विते । यत्यादिषु निविष्टेषु गणेशेन प्रचोदितः ॥ ३३ ॥ छादयंतीं स्वनादेन देवदुंदुभिनिःस्वनां । जगाद भगवान् वाचं तत्त्वार्थपरिशंसिनीं ॥ ३४ ॥ अस्मिंस्त्रिभुवने कृत्स्त्रे जीवानां हितमिच्छतां । शरणं परमो धर्मस्तस्माच्च परमं सुखं ।। ३५ ।। सुखार्थं चेष्टितं सर्वं तच्च धर्मनिमित्तकं । एवं ज्ञात्वा जना यत्नात्कुरुध्वं धर्मसंग्रहं ॥ ३६ ॥ वृष्टिर्विना कुतो मेघैः क सस्यं वीजवर्जितं । जीवानां च विना धर्मात्सुखमुत्पद्यते कुतः॥ ३७ ॥ कामो यथा पंगुको वक्तुं समुद्यतः । अंधो दर्शनकामश्च तथा धर्मादृते सुखं ॥ ३८ ॥ परमाणोः परं स्वल्पं न चान्यन्नभसो महत् । धर्मादन्यश्च लोकेस्मिन्सुहृनास्ति शरीरिणः।। ३९ ।। मनुष्य भोगः स्वर्गश्च सिद्धसौख्यं च धर्मतः । प्राप्यते यत्तदन्येन व्यापारेण कृतेन किं ॥ ४० ॥ अहिंसा निर्मलं धर्म सेवंते ये विपश्चितः । तेषामेवोर्द्धगमनं यांति तिर्यगधोन्यथा ॥ ४१ ॥ यद्यप्युर्ध्वं तपःशक्त्या व्रजेयुः परलिंगिनः । तथापि किंकरा भूत्वा ते देवान्समुपासते ॥ ४२ ॥ देवदुर्गतिदुःखानि प्राप्य कर्मवशात्ततः । स्वर्गच्युताः पुनस्तिर्यग्योनिमायांति दुःखिनः ||४३||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org