________________
पद्मपुराणम् ।
चतुर्थ 'पर्व । पुष्याणां पंचवानों दृष्टीश्च प्रमथाधिपाः । अहोदानमहोदानमित्युक्त्वा ववृषुर्मुदा ॥ १८॥ अनिल सस्पर्शो दिशः सुरभयन् ववौ । पूरयंती नभोभागं वसुधारा पपात च ॥ १९ ॥ संगमरसन्मानं त्रिजगद्विस्मयप्रदं । पूजितो भरतस्यापि श्रेयान् प्रीतिसमुत्कटं ।। २०॥ अब वर्तनं कृत्वा पाणिपात्रव्रतस्य सः । शुभध्यानं समाविष्टो भूयोपि विजितेंद्रियः ॥२१॥ तुतस्तस्य सितध्यानाद्गते मोहे परिक्षयं । उत्पन्नं केवलज्ञानं लोकालोकावलोकनं ॥ २२ ॥ तेनैव च समं जातं तेजसो मंडलं महत् । कालस्य विकरनेदं रात्रिवासरसंभवं ॥ २३ ॥ तद्देशे विपुलस्कंधो रत्नपुष्पैरलंकृतः । अशोकपादपोभूच्च विकसद्रक्तपल्लवः ॥ २४ ॥ प्रकीर्णा सुमनोवृष्टिरामोदाकृष्टषट्पदा । नभस्थैरमरैर्नानारूपसंभवगामिनी ॥ २५ ॥ महादुंदुभयो नेदुः क्षुब्धसागरनिःस्वनाः । अदृष्टविग्रहैर्देवैराहताः करपल्लवैः ॥ २६ ॥ यक्षौ पद्मपलाशाक्षौ सर्वालंकारभूषितौ । चालयांचक्रतुः स्वैरं चामरे चंद्रहासिनी ॥ २७॥ मेरुमस्तकसंकाशं मुकुटं भूमियोषितः । सिंहासनं समुत्पन्न कराहतदिवाकरं ॥ २८ ॥ त्रिलोकविभुताचिन्हं मुक्ताजालकभूषितं । छत्रत्रयं समुद्भूतं तस्येव विमलं यशः ॥२९॥ सिंहासनस्थितस्यास्य सरणं समवान्वितं । प्राप्तस्य गदितुं शोभा केवली केवलं प्रभुः ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org