SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । चतुर्थं पर्व। मेरुकूटसमाकारभासुरांशः समाहितः । स रेजे भगवान् दीर्घजटाजालहृतांशुमान् ॥५॥ अन्यदा हास्तिनपुरं विहरन्स समागतः । अविशञ्च दिनस्यार्द्ध गते मेरुरिव श्रिया ॥ ६ ॥ मध्याह्नरविसंकाशं दृष्ट्वा तं पुरुषोत्तमं । सर्वे नराश्च नार्यश्च मुमूर्छरतिविस्मयात् ॥ ७॥ नानावर्णानि वस्त्राणि रत्नानि विविधानि च । हस्त्यश्वरथयानानि तस्मै ढौकितवान् जनः॥८॥ मुग्धाः पूर्णेदुवदनाः कन्यास्तामरसेक्षणाः । उपनिन्युनराः केचिद्विनीताकारधारिणः ॥९॥ तस्मै न रुचिताः सत्यः स्वस्याप्यप्रियतां गताः। कन्यास्ता निरलंकारा ध्यायंत्यस्तं व्यवस्थिताः॥ अथ प्रासादशिखरे स्थितः श्रेयान् महीपतिः । दृष्टैनं स्निग्धया दृष्टया पूर्वजन्म समस्मरत्॥११॥ उत्थाय च नृसिंहोसौ सांतःपुरसुहृज्जनः । कृतांजलिपुरः स्तोत्रव्यग्रोष्टपुटपंकजः ॥ १२ ॥ तस्य प्रदक्षिणां कुर्वन् रराज स नराधिपः । मेरोनितंबमंडल्यां भ्राम्यन्निव दिवाकरः ॥१३॥ ततः कृतलभारेण प्रमृज्य चरणद्वयं । तस्यानंदाश्रुभिःपूर्व क्षालितं तेन भूभृता ॥१४॥ रत्नपात्रेण दत्वाघ कृततत्पादमार्जनः । शुचौ देशे स्थितायास्मै विधिना परमेण सः ॥ १५ ॥ रसमिक्षोः समादाय कलशस्थं सुशीतलं । चकार परमं श्राद्धं तद्गुणाकृष्टमानसः ॥ १६ ॥ ततः प्रमुदितैर्देवैः साधु शब्दौघमिश्रितः । नभो यैर्दुदुभिज्वानश्चक्रे दिक्चक्रपूरणः ॥ १७ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy