SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । चतुर्थ पर्व । नराचंद्रमुखाः शूराः सिंहोरस्का महाभुजाः । आकाशगमने शक्ताः सुलक्षणगुणक्रियाः ॥ ३३६ ॥ न्यायवर्तनसंतुष्टाः स्वर्गवासिसमप्रभाः । विचरंति सनारीका यथेष्टं कामरूपिणः ॥ ३३७ ॥ श्रेण्योरेवं रम्ययोस्तन्नितांतं । विद्याजायासंपरिष्वक्तचित्ताः ॥ - इष्टान्भोगान्भुंजते भूमिदेवाः । धर्मासक्तानंतरायेण मुक्ताः ॥ ३३८ ॥ एवंरूपा धर्मलाभेण सर्वे । संप्राप्यंते प्राणिनो भोगलाभाः । तस्मात्कर्तुं धर्ममेकं यतध्वं । नष्टं ध्वांतं स्वं रवेस्तुल्यचेष्टं ॥ ३३९ ॥ इत्यार्षे रविषेणाचार्य प्रोक्ते पद्मचरिते विद्याधरलोकाभिधानं नाम तृतीयं पर्व | ५६ अथ चतुर्थं पर्व | अथासौ भगवान् ध्यानी शातकौंभप्रभः प्रभुः । हिताय जगते कर्तुं दानधर्मं समुद्यतः ॥ १ ॥ निःशेषदोषनिर्मुक्तो मौनमांश्रित्य नैष्ठिकं । संहृत्य प्रतिमां धीरो जगाम धरणीतलं ॥ २ ॥ ददृशुस्तं प्रजा देवं भ्राम्यंतं तुंगविग्रहं । देहप्रभापरिच्छन्नं द्वितीयमिव भास्करं ॥ ३ ॥ यत्र यत्र पदन्यासमकरोत्स जिनेश्वरः । तस्मिन्विकचपद्मानि भवंतीव महीतले ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy