SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ५५ पद्मपुराणम्। तृतीयं पर्व। नीलनीरजवर्णानां तथा पद्मसमत्विषां । महिषीणां सपुत्राणां सर्वासामत्र पंक्तयः ॥ ३२३ ॥ धान्यानां पर्वताकाराः पल्यौघाः क्षयवर्जिताः । वाप्युद्यानपरिक्षिप्ताः प्रासादाश्च महाप्रभाः३२४ रेणुकंटकनिर्मुक्ताः रथ्यामार्गाः सुखावहाः । महातरुकृतच्छायाः प्रपाः सर्वरसान्विताः ॥३२५॥ मासांश्च चतुरस्तत्र श्रोत्रानंदकरध्वनिः । देशे काले च पर्जन्यः कुरतेऽमृतवर्षणं ॥ ३२६ ॥ हिमानिलविनिर्मुक्तो हेमंतः सुखभागिनां । यथेप्सितपरिप्राप्तवाससां साधु वर्तते ॥ ३२७ ॥ मृदुतापो निदाघेपि शंकावानिव भास्करः । नानारत्नः प्रभाक्रांतो बोधकः पद्मसंपदां ॥३२८॥ ऋतवोन्येपि चेतःस्थवस्तुसंप्रापणोचिताः । नीहारादिविनिर्मुक्ताः शोभते निर्मला दिशः॥३२९॥ न कश्चिदेकदेशोपि तस्मिन्नस्त्यसुखालयः । रमंतं सततं सर्वा भोगभूमिष्विव प्रजाः ॥ ३३० ॥ योषितः सुकुमारांगाः सर्वाभरणभूषिताः । इंगितज्ञानकुशलाः कीर्तिश्रीहीधृतिप्रभाः ॥ ३३१॥ काचित्कमलगर्भाभा काचिदिदीवरप्रभा । काचिच्छिरीषसंकाशा काचिद्विद्युत्समद्युतिः॥ ३३२ ॥ नंदनस्येव वातेन निर्मितास्ताः सुगंधतः । वसंतादिव संभूताश्चारुपुष्पविभूषणात् ॥ ३३३ ।। चंद्रकांतिविनिर्माणशरीरा इव चापराः । कुर्वति सततं रामा निजज्योत्ला सरस्तरं ॥ ३३४ ॥ त्रिवर्णनेत्रशोभिन्यो गत्या हंसवधूसमाः । पीनस्तन्यः कृशोदर्य: सुरखीसमविभ्रमाः॥३३५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy