SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ तृतीयं पर्व । पद्मपुराणम् । उपथ समारुह्य योजनानि पुनर्दश । गंधर्वकिन्नरादीनां नगराणि सहस्रशः ॥ ३१० ॥ अतोपि समतिक्रम्य पंचयोजनमंतरं । अर्हद्भवनसंछन्नो भाति नंदीश्वराद्रिवत् ।। ३११ ॥ भवनेष्वर्हतां तेषु स्वाध्यायगतचेतसः । मुनयश्वारणा नित्यं तिष्ठति परमौजसः ॥ ३१२ ॥ दक्षिणे विजयार्द्धस्य भागे पंचाशदाहिताः । रथनूपुरसंध्याभ्रप्रभृतीनां पुरां ततः ॥ ३१३ ॥ उत्तरेण तथा षष्टिर्नगराणां निवेशिता । आकाशवल्लभादीनि यानि नामानि विभ्रति ।। ३१४ ॥ देशग्रामसमाकीर्ण मटंवाकारसंकुलं । सखेटकर्वटाटोपं तत्रैकैकं पुरोत्तमं ।। ३१५ ॥ उदारगोपुराहालं हेमप्राकारतोरणं । वाप्युद्यानसमाकीर्ण स्वर्गभोगोत्सवप्रदं ॥ ३१६ ॥ अकृष्टसर्वसस्याढ्यं सर्वपुष्पफलद्रुमं । सर्वैषधिसमाकीर्ण सर्वकामप्रसादनं ।। ३१७ ॥ मोगभूमिसमं शश्वद्राजते यत्र भूतलं । मधुक्षीरघृतादीनि वहते तत्र निर्झराः ॥ ३१८ ॥ सरांसि पद्मयुक्तानि हंसादिकलितानि च । मणिकांचनसोपानाः स्वच्छमिष्टमधूदकाः ॥ ३१९ ॥ सरोरुहरजश्छन्ना विरेजुस्तत्र दीर्घिकाः । सवत्सकामधेनूनां संपूर्णेदुसमत्विषां ॥ ३२० ॥ सुवर्णखुरश्रृंगाणां संघाः शालासु तत्र च । नेत्रानंदकरीणां च वसंति यत्र धेनवः ॥ ३२१ ॥ यासां वर्चश्व मूत्रं च सुगंधं तु सरुष्कवत् । कांतिवीर्यप्रदं तासां पयः केनोपमीयते ॥ ३२२ ॥ 1 Jain Education International ५४ For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy