________________
पद्मपुराणम् ।
तृतीयं पर्व। लज्जिताः स्वेन रूपेण केचित्तु कुशचीवरं । प्राप्यामीभिस्ततस्तृप्तिं फलैः शीतजलेन च ॥२९७॥ संभूय ते ततो भग्नाः दुर्दशाचारवर्तिनः । विश्रब्धाः कर्तुमारब्धा दूरं कृत्वा प्रधारणं ॥ २९८ ॥ तेषां केनचिदित्युक्तास्ततो भूपेन ते नृपाः । एतेन कथितं किंचित्कस्मैचिद्भवतामिति ॥ २९९ ॥ नैतेन कथितं किंचिदस्मभ्यमिति ते ध्रुवं । ततोन्येनोदितं वाक्यमिति भोगाभिलाषिणः॥३०॥ उत्तिष्ठत निजान्देशान् बजामोत्र स्थितेन किं । प्राप्नुमः पुत्रदारादिवकालोकनजं सुखं ॥३०१॥ अपरेणेति तत्रोक्तं व्रजामो विह्वला वयं । नहि किंचिदकर्तव्यं विद्यतेस्माकमार्तितः ॥ ३०२॥ नाथेन तु विना यातानिरीक्ष्य भरतो रुषा । मारयिष्यति नोऽवश्यं देशान्वापहरिष्यति॥३०३॥ नाभेयो वा पुनर्यस्मिन्काले राज्यं प्रपत्स्यते । तदास्य दर्शयिष्यामो नित्रपाः कथमाननं ३०४ तस्मादत्रैव तिष्ठामो भक्षयंतः फलादिकं । सेवामस्यैव कुर्वाणा भ्राम्यंतः सुखमिच्छया ॥३०५॥ प्रतिमास्थस्य तस्याथ नमिश्च विनमिस्तथा । तस्थुतः पादयोनेत्वा भोगयाचनतत्परौ ॥३०६॥ याच्यमानौ विदित्वा तावासनस्य प्रकंपनात् । आयातो धरणो नाम्ना नागराजस्त्वरान्वितः३०७ विकृत्य जिनरूपं स ताभ्यां विद्ये वरे ददौ । प्राप्य विद्ये वरे यातौ विजयार्द्धनगे क्षणात्॥३०८॥ योजनानि दशारुह्य तत्र विद्या मृदालयाः । नानादेशपुराकीर्णाः भोगैर्भोगक्षितैः समाः॥३०९॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org