________________
५२
पद्मपुराणम् ।
तृतीयं पर्व । ततो रत्नपटे केशान् प्रतिपद्य सुराधिपः । चिक्षेप मस्तके कृत्वा क्षीरकूपारवारिणि ॥ २८४ ॥ महिमानं ततः कृत्वा जिनदीक्षानिमित्तकं । यथा यातं सुरा जग्मुर्मनुष्याश्च विचेतसः।। २८५ ॥ सहस्राणि च चत्वारि नृपाणां स्वामिभक्तितः । तदाकूतमजानंति प्रतिपन्नानि नग्नतां ॥२८६ ॥ ततो वर्षार्द्धमात्रं स कायोत्सर्गेण निश्चलः । धराधरेंद्रवत्तस्थौ कृतेंद्रियसमस्थितिः ॥ २८७ ॥ वातोद्भूता जटास्तस्य रेजुराकुलमूर्तयः । धूमाल्य इव सद्धयानवह्निशक्तस्य कर्मणः ॥ २८८ ॥ ततः षडपि नो यावन्मासा गच्छंति भूभृतां । भग्नस्तावदसौ संघः परीषहमहाभटैः ॥ २८९ ॥ केचिनिपतिता भूमौ दुःखानिलसमाहताः। केचित्सरसवीर्यत्वादुपविष्टा महीतले ॥ २९० ॥ कायोत्सर्ग परित्यज्य गताः केचित्फलाशनं । संतप्तमूर्तयः केचित्प्रविष्टाः शीतलं जलं ॥२९॥ केचिन्नागा इवोद्धता विविशुर्गिरिगहरं । परावृत्यमनाः केचित्प्रारब्धा जिनमीक्षितुं ॥ २९२ ॥ मानी तत्र मरीचिस्तु दधत्काषायवाससी । परिवाट्शासनं चक्रे वल्किभिःप्रत्यवस्थितः॥२९॥ ततः फलादिकं तेषां नग्नरूपेण गह्नतां । विचेरुगंगने वाचो दर्शनानां सुधाभुजां ॥ २९४ ॥ अनेन नगरूपेण न वर्तत इदं नृपाः । समाचरितुमत्यर्थं दुःखहेतुरयं हि वः ।। २९५ ॥ ततः परिदधुः केचित्पत्राण्यन्ये तु वल्कलं । चर्माणि केचिदन्ये तु वासः प्रथममुज्झितं ॥२९६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org