________________
पद्मपुराणम् ।
तृतीयं पर्व ।
व्रजंतु सांप्रतं जीवा देशितेन यथा त्वया । युक्तमक्षयसौख्येन लोकाग्रेव स्थितं पदं ।। २७१ ॥ इति तस्य प्रबुद्धस्य स्वयमेव महात्मनः । सुरैरुदाहृता वाचः प्रयाताः पुनरुक्ततां ॥ २७२ ॥ इति निष्क्रमणे तेन चिंतिते तदनंतरं । आगताः पूर्ववदेवाः पुरंदरपुरस्सराः ॥ २७३ ॥ आगत्य च सुरैः सर्वैस्तुतः प्रणतिपूर्वकं । चिंतितं साधु नाथेति भाषितं च पुनः पुनः ॥ २७४॥ ततो रत्नप्रभाजालजटिलीकृतदिग्मुखां । चंद्रांशुनिकराकारप्रचलच्चारुचामरां ।। २७५ ।। पूर्णचंद्रनिभादर्शकृतशोभां सुबुद्वदां । अर्द्धचंद्रकसंयुक्तामंशुकध्वजभूषितां ।। २७६ ॥ दिव्यसृग्भिः कृतामोदां मुक्ताहारविराजितां । सुदर्शनां विमानाभां किंकिणीभिः कृतस्वनां २७७ सुरनाथार्पितस्कंधां देवशिल्पिविनिर्मितां । आरुह्य शिविकां नाथो निर्जगाम निजालयात् ॥ २७८ ॥ ततः शब्देन तूर्याणां नृत्यतां च दिवौकसां । त्रिलोकविवरापूरश्चक्रे प्रतिनिनादिना ॥ २७९ ॥ ततोऽत्यंत महाभूत्या भक्त्या देवैः समन्वितः । तिलकाह्वयमुद्यानं संप्राप जिनपुंगवः ॥ २८० ॥ प्रयाग इति देशोसौ प्रजाभ्योस्मिन् गतो यतः । प्रकृष्टो वा कृतस्त्यागः प्रयागस्तेन कीर्तितः ॥ आपृच्छनं ततः कृत्वा पित्रोर्बंधुजनस्य च । नमः सिद्धेभ्य इत्युक्त्वा श्रामण्यं प्रतिपद्यत ॥ २८२ ॥ अलंकारैः समं त्यक्त्वा वसनानि महामुनिः । चकारासौ परित्यागं केशानां पंचमुष्टिभिः २८३
५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org