________________
पनपुराणम् ।
५०
तृतीयं पर्व । ये तु श्रुत्वा हृति प्राप्ता नीचकर्मविधायिनः । शूद्रसंज्ञामवापुस्ते भेदैः प्रेष्यादिभिस्तथा ॥२५८॥ युगं तेन कृतं यस्मादित्थमेतत्सुखावहं । तस्मात्कृतयुगं प्रोक्तं प्रजाभिः प्राप्तसंमदं ॥ २५९ ॥ नाभेयस्य सुनंदाभूनंदाच वनिताद्वयं । भरतादय उत्पन्नास्तयोः पुत्रा महौजसः ॥ २६० ॥ शतेन तस्य पुत्राणां गुणसंबंधचारुणा । अभूदलंकृता क्षोणी नित्यप्राप्तसमुत्सवा ॥ २६१ ॥ तस्यानुपममैश्वर्य झुंजानस्य जगद्गुरोः । प्रयातः सुमहान् कालो नाभेयस्यामितत्विषः ॥२६२॥ अथ नीलांजनाख्यायां नृत्यंत्यां सुरयोषिति । इयं तस्य समुत्पन्ना बुद्धिर्वैराग्यकारणं ॥२६॥ अहो जना विडंव्यते परितोषणचेष्टितैः । उन्मत्तचरिताकारैः स्ववपुःखेदकारणैः ।। २६४ ॥ अत्र कश्चित्पराधीनो लोके भृत्यत्वमागतः । आज्ञां ददाति कश्चिच्च तस्मै गर्वस्खलद्वचः॥२६५॥ एवं धिगस्तु संसारं यस्मिनुत्पाद्यते परैः । दुःखमेव सुखाभिख्यां नीतं संमूढमानसैः॥२६६ ॥ तस्मादिदं परित्यज्य कृत्रिमं क्षयवत्सुखं । सिद्धसौख्यसमावाप्त्यै करोम्याशु विचेष्टितं ॥२६॥ यावदेवं मनस्तस्य प्रवृत्तं शुभचिंतने । तावल्लोकांतिकैर्देवैरिदमागत्य भाषितं ॥ २६८ ॥ साधु नाथाववुद्धं ते त्रैलोक्ये हितकारणं । विच्छिन्नस्य महाकालो मोक्षमार्गस्य वर्तते ॥२६९॥ एते विपरिवर्तते भवदुःखमहार्णवे । उपदेशस्य दातारमंतरेणासुधारिणः ॥ २७० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org