________________
पद्मपुराणम् ।
तृतीयं पर्व।
महातिशयसंपन्नं तमुपेत्य समं वयं । ऋषभ परिपृच्छामः कारणं जीवनप्रदं ॥ २४५ ॥ तस्य देवस्य लोकेस्मिन्सदृशो नास्ति मानवः । सर्वेषां तमसामंते तस्यात्मा संप्रतिष्ठितः।।२४६॥ इत्युक्तास्तेन साकं ते नाभेयस्यातिकं गताः । दृष्ट्वा च पितरं देवो विधिं चक्रे यथोचितं ॥२४७॥ उपविष्टस्ततो नाभिर्नाभेयश्च यथासनं । अथैनं स्तोतुमारब्धाः प्रजाःप्रणतिपूर्वकं ॥ २४८ ॥ लोकं सर्वमतिक्रम्य तेजसा ज्वलितं वपुः । सर्वलक्षणसंपूर्ण तवैतन्नाथ शोभते ॥ २४९ ॥ गुणैस्तव जगत्सर्व व्याप्तमत्यंतनिर्मलैः । प्रल्हादकरणोयुक्तैः शशांककिरणैरिव ॥ २५० ॥ वयं प्रभुं समायाता पितरं तत्र कार्यिणः । गुणान् ज्ञानसमुद्भूतान् स चैष तव भाषते ॥२५१॥ सत्त्वं कोपि महासत्त्वो महात्मातिशयान्वितः । एवंविधोपि यं गत्वा निश्चयार्थ निषेवते ॥२५२॥ स त्वमेवंविधो भूत्वा रक्ष नः क्षुत्पीडितान् । उपायस्योपदेशेन सिंहादिभयतस्तथा ॥ २५३ ॥ ततः कृपासमासक्तहृदयो नाभिनंदनः । शशास चरणप्राप्ता बद्धांजलिपुटाः प्रजाः ॥ २५४ ॥ शिल्पानां शतमुद्दिष्टं नगराणां च कल्पनं । ग्रामादिसनिवेशाश्च तथा वेश्मादिकारणं ॥ २५५ ॥ क्षतित्राणे नियुक्ता ये तेन नाथेन मानवाः । क्षत्रिया इति ते लोके प्रसिद्धिं गुणतो गताः २५६ वाणिज्यकृषिगोरक्षाप्रभृतौ ये निवेशिताः । व्यापारे वेश्यशब्देन ते लोके परिकीर्तिताः॥२५७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org