________________
पद्मपुराणम् ।
तृतीयं पर्व ।
वाणिज्यव्यवहारेण शिल्पैश्च रहिताः प्रजाः । अभावाद्धर्मसंज्ञायाः पाखंडेश्व विवर्जिताः ॥ २३२ ॥ आसीदिक्षुरसस्तासामाहारः षडूसान्वितः । स्वयं छिन्नच्युतः कांतिवीर्यादिकरणक्षमः ॥२३३॥ सोपि कालानुभावेन स्वयं गलति नो यदा । यंत्र निष्पीडनज्ञश्च न लोकोनुपदेशतः ।। २३४ ।। पश्यंतोपि तदा सस्यं तत्संस्कारविधौ जडाः । क्षुधा संतापिताः सद्यः प्रजाः व्याकुलतां गताः ।। ततः शरणमीयुस्ताः नाभिं संघातमागताः । उचुश्चेति वचः स्तुत्वा प्रणम्य च महार्तयः ॥ २३६ ॥ नाथ ! याताः समस्तास्ते प्रक्षयं कल्पपादपाः । क्षुधासंतापितानस्मांत्रायस्व शरणागतान् २३७ भूमिजं फलसंपन्नं किमप्येतच्च दृश्यते । विधिमस्य न जानीमः संस्कारे भक्षणोचितं ॥ २३८ ॥ स्वच्छंदचारिणामेतद्गोकुलानां स्तनांतरात् । क्षरन् भक्ष्यभक्ष्यं किं कथं चेति वद प्रभो ॥ २३९॥ ॥ व्याघ्रसिंहादयः पूर्वं क्रीडास्वालिंगनोचिताः । अधुना त्रासयंत्येते प्रजाः कलहतत्पराः ॥ २४०॥ मनोहराणि दिव्यानि स्थलानि जलजानि च । दृश्यंते न तु जानीमः सुखमेभिर्यथा भवेत् २४१ अतः संस्करणोपायमेतेषां वद देव नः । यतः सुखेन जीवामस्त्वत्प्रसादेन रक्षिताः ।। २४२ ।। एवमुक्तः प्रजाभिः सन्नाभिः कारुण्यसंगतः । जगाद वचनं धीरो वृत्तेर्दर्शनकारणं ॥ २४३ ॥ उत्पत्तिसमये यस्य रत्नवृष्टिरभूच्चिरं । आगमन सुरेंद्राणां लोकक्षोभनकारणं ॥ २४४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org