________________
पद्मपुराणम् ।
४७
तृतीयं पर्व। सुरेंद्रपूजया प्राप्तः प्रधानत्वं जिनो यतः । ततस्तमृषभाभिख्यां निन्यतुः पितरौ सुतं ॥२१९॥ तयोरन्योन्यसंबद्धं प्रेम यवृद्धिमागतं । तज्जातमधुना बाले पूर्ववच्च तयोरपि ॥ २२० ॥ करांगुष्टे ततो न्यस्तममृतं वज्रपाणिना । पिबन क्रमेण संप्राप देहस्योपशयं जिनः ॥ २२१ ॥ ततः कुमारकैर्युक्तो वयस्यैरिंद्रनोदितेः । अनवद्यां चकारासौ क्रीडां पित्रोः सुखावहां ॥ २२२॥ आसनं शयनं यानं भोजनं वसनानि च । चारणादिकमन्यच्च सकलं तस्य शक्रजं ॥ २२३ ॥ कनीयसैव कालेन परां वृद्धिमवाप सः । मेरुभित्तिसमाकारं विभ्रद्वक्षः समुन्नतं ॥ २२४ ॥ आशास्तवेरमालानस्तंभसंस्थानतां गतौ । वाहू तस्य समस्तस्य जगतः कल्पपादपौ ॥ २२५ ॥ उरुदंडद्वयं दधे स्वकांतिकृतचर्चनं । त्रैलोक्यगृहधृत्यर्थं स्तंभद्वयसमुच्छ्रितं ॥ २२६ ॥ द्वयं बभार तद्वक्त्रमन्योन्यस्य विरोधकं । कात्या जितनिशानाथं दीप्त्या च जितभास्करं २२७ करौ तस्यारुणच्छायौ पल्लवादपि कौमलौ । धूलीकारे समस्तानां भूभृतामथ च क्षमौ ॥२२८॥ निविड केशसंघातः स्निधोत्यंतं बभूव च । नीलांजनशिलाकारो मूर्द्धि हेमगिरेरिव ॥ २२९ ॥ धर्मात्मनापि लोकस्य तेन सर्वस्य लोचने । उपमानमतीतेन हृते रूपेण शम्भुना ॥ २३० ॥ तसिन्काले प्रनष्टेषु कल्पवृक्षेष्वशेषतः । अकृष्टपच्यशस्येन मही सर्वा विराजते ॥ २३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org