________________
पद्मपुराणम् ।
तृतीयं पर्व । दुष्टेंद्रियमहानागदमनाय त्वमुद्गतः । वैनतेयो महावायुः संदेहधनसंपदा ॥ २०६ ।।। धर्मावुबिंदुसंप्राप्तिवृषिता भव्यचातकाः । उन्मुखास्त्वामुदीक्षते नाथामृतमहाघनं ॥ २०७॥ नमस्ते त्रिजगद्गीतनितांतामलकीर्तये । नमस्ते गुणपुष्पाय तरवे कामदायिने ॥ २०८ ॥ कर्मकाष्ठकुठाराय तीक्ष्णधाराय ते नमः । नमस्ते मोहतुंगाद्रिभंगवज्रास्मने सदा ॥ २०९ ॥ विध्यापकाय दुःखाग्नेर्नमस्ते सलिलात्मने । रजःसंगविहीनाय नमस्ते गगनात्मने ॥ २१ ॥ इति स्तुत्वा विधानेन प्रणम्य च पुनः पुनः । तमारोप्य गजं जग्मुरयोध्याभिमुखाः सुराः २११ मातुरंके ततोलेखः कृत्वा शच्या जिनार्भकं । विधाय परमानंद स्वस्थानं ससुरोगमत् ॥२१२।। ततस्तमंबरैर्दिव्यैरलंकारैश्च भूषितं । लिप्तं च परमामोदघ्राणहार्यानुलेपनैः ॥२१३ ॥ तुष्टाः संवीक्ष्य तनयमकस्थं जननी तदा । निजच्छायापरिष्वंगपिंजरीकृतदिग्मुखं ॥ २१४ ॥ आलिंगती मृदुस्पर्श कौतुकव्याप्तमानसा । दुराख्यानपरावस्थामवतीर्णा सुखार्णवं ॥ २१५ ॥ अंकप्राप्तेन सा तेन रराज प्रमदोत्तमा । नवोदितेन पूर्वाशा बिबेन सवितुर्यथा ॥ २१६ ॥ नाभिश्च तत्सुतं दृष्ट्वा दिव्यालंकारधारिणं । त्रैलोक्यैश्वर्यसंयुक्तं मेने स्वं परमद्युतिं ॥ २१७ ॥ सुतगात्रसमासंगसंजातसुखसंपदः । मीलिताक्षत्रिभागस्य मनोस्य द्रवतां गतं ।। २१८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org