________________
पद्मपुराणम् ।
तृतीयं पर्व ।
इत्युक्ता सा परं हर्षे जगाम कमलेक्षणा । मूर्तिरिंदोरिवोदारा दधती कांतिसंहतीः ॥ १५४ ॥ संभविष्यति षण्मासाज्जिने शक्राज्ञयामुचत् । रत्नवृष्टिं धनाधीशो मासात्पंचदशादितः ॥ १५५ ॥ तस्मिन्गर्भस्थिते यस्माज्जाता वृष्टिर्हिरण्मयी । हिरण्यगर्भनान्नासौ स्तुतस्तस्मात्सुरेश्वरैः ॥ १५६ ॥ ज्ञानैर्जिन स्त्रिभिर्युक्तः कुक्षौ तस्याश्चचाल न । माभूत्संचलनादस्याः पीडेतिकृतमानसः ।। १५७ ॥ यथा दर्पणसंक्रांतछायामात्रेण पावकः । आधाता न विकारस्य तथा तस्या बभूव सः ॥ १५८ ॥ निश्चक्राम ततो गर्भात् पूर्णे काले जिनोत्तमः । मलस्पर्शविनिर्मुक्तः स्फटिकादिव सद्मतः ॥ १५९ ॥ ततो महोत्सवश्चक्रे नाभिना सुतजन्मनि । समानंदितनिः शेषजनो युक्तचा यथोक्तया ॥ १६०॥ त्रैलोक्यं क्षोभयायात मैंद्रं कंपितमासनं । सुरासुराश्व संजाताः किं किमेतदितिस्वनाः ॥ १६१ ॥ अनाध्मातस्ततः शंखो दध्वान भवनश्रितां । व्यंतराधिपतेर्गेहे रराट पटहः स्वयं ।। १६२ ॥ ज्योतिषां निलये जातमकस्मात्सिहवृंहितं । कल्पाधिपगृहे स्पष्टं घटारत्नं रराण च ॥ १६३ ॥ एवंविधशुभोत्पातैः ज्ञाततीर्थकरोद्भवः । प्रचलद्भिः किरीटैश्च प्रयुक्तावधयस्ततः ॥ १६४ ॥ प्रातिष्ठत महोत्साहा इंद्रा नाभीयमालयं । वारणेंद्रसमारूढाः कृतमंडन विग्रहाः ॥ १६५ ॥ ततः कंदर्पिणः केचित्सुरा नृत्तं प्रचक्रिरे । चक्रुरास्फोटनं केचिद्वलानं केचिदुन्नतं ।। १६६ ।।
Jain Education International
४२
For Private & Personal Use Only
www.jainelibrary.org