________________
पद्मपुराणम् ।
तृतीयं पर्व ।
अयं भांति सहस्रांशुरुदयाचलमस्तके | कलशो मंगलार्थं च सिंदूरेणैव गुंठितः ॥ १४२ ॥ संप्रति त्वत्सितेनैव तिमिरं यास्यति क्षयं । इतीच स्वस्य वैयर्थ्यात्प्रदीपाः पांडुतां गताः ॥ १४३ ॥ कुलमेतच्छकुंतानां कलकोलाहलाकुलं । मंगलं ते करोतीव निजनीडमुखस्थितं ॥ १४४ ॥ अमी प्रभातवातेन जडमंदेन संगताः । निद्राशेषादिवेदानीं घूर्णते गृहपादपाः ।। १४५ ।। एषा त्वगृहवाप्यं ते भानुविंबविलोकनात् । हृष्टाह्वयति जीवेशं चक्रवाकी कलस्वनैः ॥ १४६ ॥ त्वद्गतिप्रेक्षणेनैते कृतोत्कंठा इवाधुना । कुवैति कूजितं हंसा निद्रानिर्वासकारणं ॥ १४७ ॥ उल्लिख्यमानकंसोत्थनिःस्वनप्रतिमो महान् । अलं सारसचक्राणां झंकारोयं विराजितः ।। १४८ ॥ निशांत इत्ययं स्पष्टो ज्योतिर्निर्मलचेष्टितं । देवि मुंचाधुना निद्रामितिबंदिकृतस्तवा ॥ १४९ ॥ अमुंचच्छयनीयं च समुद्भूततरंगकं । सुमनोभिः समाकीर्ण साभ्रतारानभः समं ॥ १५० ॥ वासगेहाच्च निष्क्रांता प्रत्यात्मकृतकर्मिका । ययौ नाभिसमीपं सा दिनश्रीरिव भास्करं ॥ १५१ ॥ भद्रासननिविष्टाय तस्मै खर्वासनस्थिता । कराभ्यां कुड्मलं कृत्वा क्रमात्स्वमान्यवेदयत् ॥ १५२ ॥ इति चिंताप्रमोदेन परायत्चीकृतः पतिः । जगाद त्वयि संभूतत्रैलोक्यस्य गुरुः शुभे ।। १५३ ।। १ निष्क्रम्य इति क पुस्तके पाठः ।
४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org