________________
पद्मपुराणम् ।
तृतीयं पर्व ।
उदयाचलमूर्द्धस्थं प्रध्वस्ततिमिरोद्भवं । विश्रब्धदर्शनं भानुं मुक्तं मेघायुपद्रवैः ॥ १२९ ।। बंधु कुमुदखंडानां मंडनं रात्रियोषितः । धवलीकृत सर्वाशं किरणैस्तारकापतिं ॥ १३० ॥ अन्योन्यप्रेमसंबंधं प्रस्फुरद्विमले जले | विद्युदंडसमाकारं मीनयोर्युगलं शुभं ।। १३१ ॥ हासेपशोभितग्रीवं पुष्पमालापरिष्कृतं । मणिभिः कलशं पूर्ण पंचवर्णैः समुज्ज्वलं ।। १३२ ॥ पद्मेदीवरसंच्छन्नं विमलांबुमहासरः । नानापक्षिगणाकीर्ण चारुसोपानमंडितं ॥ १३३ ॥ चलन्मीनमहानऋजनितोतुंगवीचिकं । मेघपंक्तिसमासक्तं नभस्तुल्यं नदीपतिं ॥ १३४ ॥ साटोपहरिभिर्युक्तं नानारत्नसमुज्ज्वलं । चामीकरमयं चारु विष्टरं दूरमुन्नतं ॥ १३५ ॥ सुमेरुशिखराकारं सुमानं रत्नराजितं । विमानं बुदबुदादर्श चामरादिविभूषितं ।। १३६ ।। कल्पद्रुमगृहाकारं भावनं बहुभूमिकं । मुक्तादामकृतच्छायं रत्नांशुपटलावृत्तं ॥ १३७ ॥ पंचवर्णमहारत्न राशिमत्यंतमुन्नतं । अन्योन्यकिरणोद्योतजनितेंद्रशरासनं ।। १३८ ॥ ज्वालाजटालमनलं धूमसंभववर्जितं । प्रदक्षिणकृतावर्तमनिंधनसमुद्भवं ।। १३९ ॥ अनंतरं च स्वमानां दर्शनाच्चारुदर्शना । सा प्रबोधं समायाता जयमंगलनिश्वनैः ॥ १४० ॥ Parsaiतिसंभूतपयेव निशाकरः । एष संप्रति संजातः छायया परिवर्जितः ॥ १४१ ॥
४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org