________________
पद्मपुराणम् ।
तृतीयं पर्व। तांबूलदायिनी काचित्काचिदासनदायिनी । मंडलायकरा काचित्सततं पालनोद्यताः ॥ ११६॥ काश्चिदभ्यंतरद्वारे बाह्यद्वारे तथापरा । गृहीतकुंतसौवर्णवेत्रदंडासिहेतयः ॥ ११७ ॥ चामरग्रहिणी काचित्काचिच्छत्रस्य धारिका । आनेत्री वाससां काचिद्भूषणानां ततः परा ११८ शयनीयविधौ काचित्सक्ता सन्माने परा । पुष्पप्रकरणे काचित्काचिद्गंधानुलेपने ॥ ११९ ॥ पानाशनविधौ काचित्काचिदाहानकमणि । एवं कतेव्यतां तस्याः सवोः कुर्वति देवताः॥१२०॥ चिंताया अपि न क्लेशं प्रपेदे नृपवल्लभा । अन्यदा शयनीये स्वे सुप्ता सात्यंतकोमले ॥१२१॥ पट्टांशुकपरिच्छन्ने प्रांतयोः सोपधानके । तस्या मध्ये सुखं लब्धा स्वपुण्यपरिपाकतः ।। १२२ ॥ गृहीतामलशस्त्राभिर्देवीभिः पर्युपासिता । अद्राक्षीषोडश स्वप्नानिति श्रेयोविधायिनः॥ १२३ ।। वृषभं दुंदुभिस्कंधं दधतं ककुभं शुभं । नदंतं शरदंभोदसंघाताकारधारिणं ॥ १२४ ॥ करटच्युतदानांबुगंधं संबंधपट्पदं । वारणं चंद्रधवलं मंद्रगर्जितकारणं ॥ १२५ ॥ शीतांशुकिरणस्वेतकेशरालीविराजितं । शशिरेखासदृग्दंष्ट्राद्वंद्वयुक्तं मृगाधिपं ॥ १२६ ॥ सिच्यमानां श्रियं नागैः कुंभैः सौवर्णराजितैः । उत्फुल्लपुंडरीकस्य स्थितामुपरिनिश्चला ॥१२७॥ पुन्नागमालतीकुंदचंपकादिप्रकल्पिते । नितांतं दामिनीदीर्घ सौरभाकृष्टषट्पदे ॥ १२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org