SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ૩૮ पर्व कपोलावेव सततं स्फुटालोकस्य कारणं । रत्नप्रभाप्रदीपास्तु विभवायैव केवलं ॥ १०३ ॥ हासा एव च सद्गंधाः पटवासाः सितत्विषः । कर्पूरपांशवः कांतिव्याघातायैव केवलं ।। १०४ ॥ वाण्येव मधुरा वीणा वाद्यश्रुतिकुतूहलं । कृतं तु परिवर्गेण तंत्रीनिकरताडनं ।। १०५ ।। कांतिरेवाधरोदभूता रागगस्य समुज्ज्वलः । निर्गुणः कौंकुमः पंको लावण्यस्य कलंकनं ॥ १०६ ॥ परिहासप्रहाराय भुजावेव सुकौमलौ । प्रयोजनमतीतानि मृणालशकलानि तु ॥ १०७ ॥ यौवनौष्मसमुद्भूता मंडनं स्वेतबिदवः । कुचयो हारभारस्तु वृथैव परिकल्पितः ॥ १०८ ॥ शिलातलविशाला च श्रोणी विस्मयकारणं । निर्मितेन विना जाता भवने मणिवेदिका ॥ १०९ ॥ भूषणं भ्रमरा एव निलीनाः कमलाशया । पादयोरेंद्रनीले च नूपुरे निःप्रयोजने ॥ ११० ॥ तस्या नाभिसमेताया भोगं कल्पतरूद्भवं । भुंजाना या दुराख्यानं ग्रंथकोटिशतैरपि ॥ १११ ॥ इंद्राज्ञापरितुष्टाभिर्दिक्कुमारीभिरादरात् । कस्मिंश्चित्समये प्राप्ते परिचर्या प्रवर्तिता ॥ ११२ ॥ नंदाज्ञापय जीवेति कृतशब्दाः ससंभ्रमं । प्रतीयुः शासनं तस्या लक्ष्मीश्रीवृतिकीर्तयः ॥ ११३ ॥ स्तुवंति काश्चित्तत्काले तां गुणैर्हृदयंगमैः । काचित्परमविज्ञाना उपगायति वीणया ॥ ११४ ॥ अत्यंतमद्भुतं काश्चिद्गायंति श्रवणामृतं । पादयोर्लोटनं काचित्कुर्वते मृदुपाणिकाः ।। ११५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy