________________
पद्मपुराणम् ।
३७
तृतीयं पर्व ।
मुक्तादामचितो हेमरत्नकल्पितभित्तिकः । क्षितौ स एक एवासीद्वाप्युद्यानविभूषितः ॥ ९० ॥ गृहीतहृदया तस्य बभूव वनितोत्तमा । प्रचलत्तारका भार्या रोहिणीव कलावतः ॥ ९१ ॥ गंगेव वाहिनीशस्य महाभूभृत्कुलोद्गता । हंसीव राजहंसस्य मानसानुगमक्षमा ॥ ९२ ॥ अरुन्धतीव नाथस्य नित्यं पार्श्वानुवर्तिनी । हंसीव गमने वाचि परपुष्टवधूसमा ॥ ९३ ॥ चक्रादेव पतिप्रीतावित्यादिसमुदाहृतं । यां प्रति प्रतिपद्येत सर्व हीनोपमानतां ॥ ९४ ॥ पूजिता सर्वलोकस्य मरुदेवीति विश्रुता । यथा त्रिलोकवंद्यस्य धर्मस्य श्रुतदेवता ।। ९५ ।। ऊष्माभावेन या चंद्रकलाभिरिव निर्मिता । दर्पण श्रीजिगीषेव प्रतिप्राणिगृहीतिषु ॥ ९६ ॥ निर्मितात्मस्वरूपेव परचित्तप्रतीतिषु । सिद्धजीवस्वभावेव त्रिलोकव्याप्तकर्मणि ॥ ९७ ॥ पुण्यवृत्तितया जैन्या श्रुत्येव परिकल्पिता । अमृतात्मेव तृष्यत्सु भृत्येषु वसुवृष्टिवत् ॥ ९८ ॥ सखीषु निर्वृतेस्तुल्या विलासान्मदिरात्मिका । रूपस्य परमावस्था रतेरिव तनुस्थितिः ॥ ९९ ॥ मंडनं मुंडमालाया यस्याश्चक्षुरभूद्वरं । असितोत्पलदामानि केवलं भारमात्रकं ॥ १०० ॥ अलकभ्रमरा एव भूषा भालांतयोः सदा । दलानि तु तमालस्य पुनरुक्तानि केवलं ॥ १०१ ॥ प्राणेशसंकथा एव सुभगं कर्णभूषणं । डंवरो रत्नकनककुंडलादिपरिग्रहः ॥ १०२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org