SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । तृतीयं पर्व । ततो वर्षसहस्राणामतिक्रांतासु कोटिषु । वहीषु स मनुः प्राप्तो जन्म सन्मतिसंज्ञितः ॥ ७७ ॥ ततः क्षेमंकरो जातः क्षेमभृत्तदनंतरं । अभूत्सीमंकरस्तस्मात्सीमधृच्च ततः परं ॥ ७८॥ चक्षुष्मानपरस्तस्मात्तं गत्वा सभयाः प्रजाः । अपृच्छन्नाथ कावेतौ दृश्यते गगनार्णवे ॥७९ ।। ततो जगाद चक्षुष्मान् विदेहे यच्छ्रुतं जिनात् । युक्तो जन्मांतरस्मृत्या यथाकालपरिक्षये ॥ ८॥ क्षीणेषु द्युतिवृक्षेषु समुद्भूतप्रभाविमौ । चंद्रातित्याविति ख्याती ज्योतिर्देवौ स्फुटौ स्थितौ ८१ ज्योतिषो भावनाः कल्पाः व्यंतराश्च चतुर्विधाः । देवा भवंति योग्येन कर्मणा जंतवो भवे ॥८२॥ तत्रायं चंद्रमाः शीतस्तीव्रगुरेष भास्करः । एतौ कालस्वभावेन दृश्येते. गगनामरौ ॥ ८३॥ भानावस्तंगते तीने कांतिभेवति शीतगोः । व्योम्नि नक्षत्रचक्रं च प्रकटत्वं प्रपद्यते ॥८४ ॥ स्वभावमिति कालस्य ज्ञात्वा त्यजत भीतितां । इत्युक्तास्तं समाभ्यर्च्य प्रजा याता यथागतं ८५ चक्षुष्मति ततोऽतीते यशस्वीति समुद्गतः । विज्ञेयो विपुलस्तस्मादभिचंद्रः परस्ततः॥८६॥ चंद्राभः परतस्तस्मान्मरुदेवस्तदुत्तरः। ततः प्रसेनजिज्जातो नाभिरंत्यस्ततोऽभवत् ॥ ८७॥ एते पितृसमा प्रोक्ताः प्रजानां कुलकारिणः शुभैः कर्मभिरुत्पन्नाः चतुर्दश समाधियः॥ ८८ ॥ अथ कल्पद्रुमो नाभेरस्य क्षेत्रस्य मध्यगः । स्थितः प्रासादरूपेण विभात्यत्यंतमुन्नतः ॥ ८९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy